वा० भा० - रवे: सममण्डलप्रवेशे य उन्नातकाल उद्दिष्टस्तस्य जीवा सा तावत् प्रथम- मिष्टहुतिः कल्प्या । ततो द्वादशगुणयाक्षभया गुण्या पलकर्णीवर्गेण भाज्या । सा किल स्थूला क्रान्तिज्या भवति । तस्याः क्रान्तिज्याया द्युज्यां कुज्यां चरज्यां चरं च कृत्वाथोन्नतादूनयुताच्च- रेणेत्यादिनेष्टहृतिः साध्या । तया पूर्वमागता क्रान्तिज्या गुण्या । आद्यहृत्या कल्पितया भाज्या । फलं स्फुटासन्ना क्रान्तिज्या भवति ।
अत्रोपपत्तिः- अत्रोन्नतकालजीवातुल्या प्रथमं तद्धृतिः कल्पिता । तस्या अनुपातेन शङ्कुः । यदि पलकर्णेन द्वादशकोटिस्तदा तद्धृतिकर्णेन किमिति । अत्र तद्धृतेद्वादशगुणः पलकर्णो हरः । फलं सममण्डलशङ्कुः । पुनरन्योऽनुपातः । यदि पलकर्णेनाक्षभा भुजो लभ्यते तदा सममण्डलशङ्कुतुल्येन कर्णेन किमिति । फलं क्रान्तिज्या स्थूला । अस्याः क्रान्तिज्यायाश्च-रादिकेनाथोन्नताढूनयुताच्चरेणेत्यादिनेष्टहुतिः साध्या । तां तद्धृत प्रकल्प्य पुनः क्रान्तिज्या साध्या । एवमसकृद्यावदविशेषः । तत्रासकृत्कर्मणि त्रैराशिकेन क्रियोपसंहारः कृतः । यदि कल्पितया हृत्येयं क्रान्तिज्या लभ्यते तदेदानीमानीतया किमिति । एवं क्रान्तिज्या स्फुटा स्यादित्युपपन्नम् ।। ८२-८३ ।।
इदानी द्वितीयप्रश्नस्योत्तरमाह—
तदा नतज्यात्रिभजीवयोर्यद्वर्गान्तरं तत् पलभाकृतिघ्नम् ।
तेनोद्धृतो व्यासदलस्य वगों वेदेन्द्र १४४ निध्नोऽथ सरूपलब्ध्या ।।८४।।
व्यासार्घवर्गाद्विहृतात् पदं स्यात् क्रान्तिज्यका' सा त्रिभशिञ्जिनीध्नी ।
जिनांशमौव्यां विहृताप्तचापादग्रे प्रवक्ष्ये च यथा रविः स्यात् ॥८५॥
वा० भा०-यदा सममण्डल प्रविष्टो दृष्टस्तदा या नतघटिकास्तासां जीवा। तस्या वर्गेण त्रिज्यावर्गो रहितः । ततः ६लभावर्गेण गुण्यः । तेन भाज्यः । कस्त्रिज्यावर्गः । किविशिष्टः ॥ वेदेन्द्र १४४ गुणितः । तत्र यत् फलं लभ्यते तेन सैकेन त्रिज्यावर्गाद्भक्ताद्यन्मूलं । लभ्यते सा क्रान्तिज्या स्यात्। सा क्रान्तिज्या त्रिज्यागुणा जिनांशज्यया भत्ता यत् फल तस्य चापाद्यथा रविर्भवति तथा ग्रे वक्ष्ये ।
अत्रोपपत्तिरव्यक्तकल्पनया। तत्र क्रान्ति ज्याप्रमाण । यावतावत् १ । क्रान्ति ज्यावगॉन- स्त्रिज्यावर्गो द्युज्यावर्गः स्यात् । याव १ त्रिव १ । तदा नतज्यावर्गेणोनस्त्रिज्यावर्गः सूत्रसंज्ञस्य वर्गः स्यात् ॥ सूत्रं द्युज्यागुणं त्रिज्याहृतं कलासंज्ञं स्यात् । तत्र कला नाम कुज्योना तद्धृतिः । अत्र वर्गेण वर्गं गुणयेद्भजेच्चेति सूत्रसंज्ञस्य वर्गेण द्युज्यावर्गो गुण्यस्त्रिज्यावर्गेण भाज्यः । फलं कलावर्गो भवति ॥ तत्र कला कोटिः । क्रान्तिज्या भुजः । समशङ्कुः कर्णः । इदं पलक्षेत्रम् ।
१. अत्र बापूदेवः--
पलप्रभाध्नी नतकालकोटिज्यका त्रिभज्या विहृता यदासम् ।
अक्षप्रभां तत् प्रविकल्प्य साध्या पलज्यका क्रान्तिगुणः स एव ।