पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/258

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१३
त्रिप्रशनाधिकारः

अतस्तेनानुपातः । यदि द्वादशकोटेः पलभाभुजस्तदा कुज्योनिततद्धृतेः कलासंज्ञायाः किमिति ॥ एवमत्र कलावर्गस्य पलभवर्गो गुणः । द्वादशवर्गो हरः । फलं क्रातिज्यावर्गः । एवमत्र द्युज्यावर्गस्य सूत्रवगंविषुवतीवर्गयोघांती गुणस्त्रिज्यावर्गीद्वादशवर्गयोघांतो १७०२०५७ ५३६ हरः । अत्र सूत्रवर्गेण पलभावर्गगुणेन भाज्येऽपर्वातते जातो द्युज्यावर्ग एव याव १ रू ११८१९८४४ । भाजके चापर्वातते जाता अष्टौ वित्र्यंशाः ७॥४० । अयं द्युज्यावर्गस्य छेदः । याव १ रू ११८१९८४४ दशनम् । छेद: ७ ॥ ४० ॥

  • A . . याव 1 रू ११८१९८४४ ॥ sa छेदगमे पक्षयोः शोधनार्थं न्यासः ' अत्र शोधने कृतेऽव्यक्ताङ्केनानेन

८४० व्यासार्धवर्गाद्भक्तान्मूलं लब्धं यावत्तावन्मानम् । सैव क्रान्तिज्या ११६८ । एवं नतज्या- त्रिभजीवयोर्यद्वर्गान्तरमित्यादि सर्वमुपपन्नम् ।। ८४-८५ ।। अयं क्रान्तिज्यावर्ग:स्यास्य याव १ सम इति समच्छेदीकृत्य

 अथान्यं प्रश्नमाह--

 मार्तण्डे सममण्डलं प्रविशति च्छाया किलाष्टयङ्गुला
 दृष्टाष्टासु घटीषु कुत्रचिदपि स्थाने कदाचिदिने ।
 अकक्रान्तिगुणं तदा वदसि चेदक्षप्रभां तत्र च
 त्रिप्रशनप्रचुरप्रपश्चचतुरं मन्ये त्वदन्यं नहि ॥ ८६ ।।

 अस्योत्तरमाह—

अत्रापि साध्योन्नतकालजीवा पूर्व तु सैवेष्टहुतिः प्रकल्प्या ।
ततोऽर्कनिघ्नी समशङ्कुभक्ता पलश्रुतिः स्यात् पलभा ततश्च ।। ८७ ।।
पलप्रभाघ्नः समशङ्कुरक्षकर्णोद्धृतः स्यादपमज्यकातः ।
चरादिकेनेष्टहृतिस्ततोऽक्षकर्णोऽसकृत् क्रान्तिगुणश्च तस्मात् ।। ८८ ।।

 वा०भा०--अत्र किल षोडशाङ्गुला सममण्डलच्छाया । विशत्यङ्गुलः कर्णः ॥ यद्यनेन कर्णेन द्वादशाङ्गुलशङ्कुस्तदा त्रिज्याकर्णेन क इति फलं सममण्डलशङ्कुः । तथा च प्रागभिहितं त्रिज्यार्कघातः श्रुतिहृन्नरः स्यादिति । अतोऽत्र ज्ञातः समशङ्कुः पञ्चांशोनास्त्र्यङ्गनखाः २०६२ । ४८ । अत्रापि साध्योन्नतकालजीवेति । यथा पूर्वप्रश्नभङ्ग उन्नतकालज्येष्टहृतिः प्रकल्पिता तथात्राप्युन्नतकालज्येष्टा हृतिः प्रथमं प्रकल्प्या । सार्क १२ गुणा सममण्डल- शङ्कुना भाज्या । यत् फलं स स्थूल: पलकर्ण: स्यात् । तस्मातू पलभा साध्या । तया पलभया सममण्डलशड्कुर्गुण्यः पलकणेंन भाज्यः । फलं स्थूला क्रान्तिज्या । तस्याः क्रान्तिज्याया युज्याकुञ्ज्यादिकं प्रसाध्याथोन्नताढूनयुताच्चरेणेत्यादिनेटहतिः साव्या । तस्याः पुनरक्षकर्णस्ततः क्रान्तश्च ॥ एवमसकृद्यावदविशेषः ।