पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/267

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२२
सिद्धान्तशिरोमणी ग्रहगणिते

१ रु ११८१९८४४ अयं द्वितीयः पक्षः । पक्षौ समाविति समच्छेदविधानार्थं जिनज्या वर्गेण गुणितो जातो द्वितीयपक्षः । नन्दखाङ्गविधुबाणनन्दविधुगुणितो यावद्वर्गः क्षयगतः । जिनज्यावर्गगुणितस्त्रिज्यावर्गश्च जातः ।

 रसाङ्काङ्कष्टकराङ्कविश्वनगाद्रिरसखाग्निलोचनमितः । कृतसमच्छेदयोः पक्ष योन्यासः । छेदगमे कृते । याव २३३७७२२५ द्विगुणयावत्तावद्गुणिता युतिः ६७५४४९५ युतिवर्ग:श्च १९५१६०९, द्वितीयपक्षः ॥ याव १९५१६६८ रु २३०६७७१३९२८९९६ अत्रंकाव्यक्त शोधयेदित्यनेन 'संशोध्यमानमृणं स्वमिति' यावद्वर्गस्थाने जातः यावद्वगोंऽब्धिगुणाष्टाष्टकराग्नितत्त्वगुणितः याव २५३२८८३४ द्विगुणयावतावद्गुणितयुतिः सैव ॥ या २ गु० यु ॥ ६७५४४६५ इदमुपरि (त) मपक्षे । द्वितीये तु जिनज्यावर्ग:गुणितत्रिज्यावर्गाज्जिनज्यावर्ग: शोध्य इति जातम् । तत्राव्यक्तवर्गाड्रनापवर्ते सर्वत्र कृते यावद्वगंस्थाने जातं याव १ या युतिस्थाने जिन रसवस्वष्टाङ्गविधुभिर्युते गुणहरावपवत्र्यं युतिगुणस्थाने चत्वारः हरस्थाने पञ्चदश । अत उक्तं ‘युतिस्तिथ्युद्धृताब्ध्या हतो' इत्याद्यः कृतः । परमस्य यावत्तावत् द्वयं गुणोऽस्त्येव ।  एवं द्वितीयपक्षस्थजिनज्यावर्गगुणितत्रिज्यावर्गाच्छोधिते जिनज्यावर्गे यदवशेष तदपि वर्णवर्गाङ्केन भाज्यम् । ततः पक्षयोर्मूलग्रहणार्थमाद्यवर्गतुल्यरूपाणि क्षेप्यानि । तत्र शोध्यशोधकयोर्वर्णवर्गाडूभक्तयोर्यावदन्तरं तावदेव शोध्यशोधकान्तरं वर्णवर्ग भक्तमिति जिनज्यावर्गः शोधकः क्षयगतो वर्णवर्गाङ्केन भाज्यः । तत्र भाज्यहरौ भाज्येनापवत्र्य जिनज्यावर्गस्थाने रूपहरीभूतवर्णवर्गाङ्कस्थाने किञ्चिदूनास्त्रयोदश । तस्माद्युतिवर्गस्य रूपं गुणस्त्रयोदशमितो हरः । परमयामृणगतो युतिवर्गः । अत्रैवाद्य- वर्गरूपाणि क्षिप्यन्ते तथापि न किञ्चिद् बाधको फलाविशेषात् ।

 षोडशगुणो युतिवर्गस्तत्त्वाश्विभक्त आद्यवर्गः स्यात् । तिथिभक्तायाश्च तुर्गुणयुतेराद्याभिधानात् । ‘धनर्णयोरन्तरमेव योगः' इति रूपगुणायां त्रयोदश भक्तायां युतिकृतो तत्त्वाश्विभक्तो युतिवर्गः षोडशगुणः शोध्यः । ‘मिथो हराभ्या मपवतिताभ्यांयद्वा हरांशौ सुधियात्र गुण्याविति'तत्वाश्विभ्यस्त्रयोदशभिर्भागे हृते लब्धाः सत्र्यंशाः सप्तदश १७॥२० एतैस्त्रयोदशगुणिता जातास्तत्त्वाश्विनो हरस्थाने । रूपमितगुणस्थाने सत्र्यंशाः सप्तदशैव । एतेभ्यः षोडशशोधिताः जातं गुणस्थाने सत्र्यंशं रूपम् । ततः सञ्चारः । यदि सत्र्यंशरूपमिते गुणे तत्त्वाश्वितुल्यो हरस्तदा रूपद्वयमिते गुणे को हर इति जाताः सप्तामराः परमेते क्षयगताः ॥ अत उक्तं-“युति वर्गतो यमगुणात्सप्तामराप्तोनिता' इति ।  
तथैव शोध्ये जिनज्यावर्गगुणितत्रिज्यावर्गे वर्णवर्गाडून भक्त लब्धाः 'नागा द्रयङ्गदिगङ्ककाः धनगताः ।।' अत एवैते युतिवर्गतो यमगुणात्सप्तामराप्तोनिताः कृताः । व्यक्तपक्षे रूपाण्येतानि । अतोऽस्य पदं ग्राह्यमित्युक्तम् । अव्यक्तपक्षे तु