यावत्तावद्वर्गस्यैकस्य मूलं यावत्तावदेकम् । आद्यवर्गातुल्यरूपाणां मूलमाद्य एव क्षय गतः ‘द्वयोरभिहति द्विनिघ्नीमित्यनेन' मध्यमखण्डस्य यावत्तावद्द्वयगुणिताद्यस्य क्षय गतस्यापनयनात् । अत्र व्यक्तपदमव्यक्तपक्षमूलणंगरूपतोऽल्पमेवोत्पद्यत इति क्षयगतं विधाय पुनः समशोधने कृते व्यक्तपक्षपदेनोन आद्य एव क्रान्तिज्येति सम्यगुक्तम् । अधिकारसमाप्त्यन्तं भाष्यं स्पष्टम् ॥ १००-१०१ ।।
भट्टाचार्यसुताद्दिवाकर इति ख्याताज्जनि प्राप्तवान् । |
इदानीमन्यं प्रश्नमाह--
द्रीष्टा खाम्बरपञ्चखेचर ९५०० मिता पञ्चाडुलाक्षप्रभे । |
वा० भा० -स्पष्टार्थम्। १०२ ॥
इदानीमस्योत्तरमाह--
द्वयाद्यास्तयुतिभाजिताः पृथगथ प्रोदिष्टयुत्या हता |
वा० भा० - स्पष्टार्थम् ॥ १०३ ॥ अत्रोपपति:--अत्र क्रान्तिज्येष्टा कल्प्या सात्र द्वादशगुणविषुवच्छायातुल्या कल्पि ता यथेतरा निरग्रा लभ्यन्ते । क्रान्तिज्या ६० । समशशङ्कुः १५६ । तद्धृतिः १६९ । कुज्या २५ । अग्रा ६५ । एवमस्याः क्रान्तिज्याया ६० एताः साधिताः । अतस्त्रेराशिकम्। अत्र यासां युक्तिरुदाहृता तासां युतिः कार्या । तथा कृता ४७५ । यद्यनया युत्यैताः क्रान्तिज्याद्याः पृथक् पृथक् पञ्च ज्या लभ्यन्ते तदानया खाम्बरपञ्चखेचर ९५०० मितया किमिति । एवं लब्धा क्रान्तिज्या १२०० । समशङ्कुः ३ १२० । त् द्धृतिः ३३८० । महीजीवा ५०० । अग्रका १३o c । १०३ ॥