वा० भा०-जले विलोममिति । भुजभाग्रयोयोंगे शङ्क निवेश्य बिन्दो: सकाशाच्छङ क्वग्रसक्त सूत्रं कर्णगत्या प्रसार्य सूत्रगत्या प्राग्वन्नलक निवेश्यै किन्तु दृगुच्चाग्रे नलकाग्रे दृष्टि कृत्वाध:सुषिरेण बिन्दुस्थापितजलपात्र ग्रह विलोकयेदिति ।
अत्रोपपतिः-अत्र ग्रहाद्विपरीतदिशि छाया भ्रमति । यदि प्राग्भागे ग्रहस्तदा पश्चिमभोगे छाया, यदि पश्चिमभागे प्रहस्तदा प्राग्भागे छाया । यदि ग्रहप्राच्यपरयोरन्तर दक्षिण तदा छाया ग्रप्राच्यपरयोरन्तरमुत्तरम् । यद्युत्तरं तदा दक्षिणम् । अतएव प्राच्यपरा कोटिविपरीता दत्ता । भुजस्तु यथादिग्गतो दत्तः । यतोऽसौ छायाग्रस्य भुजः प्रागेव विपरीत अानीतः । अतश्छाया ग्राच्छङ्क्वग्रगामि यत् सूत्रं ग्रहानुगतं भवति तद्गत्या निवेशितस्य नलकस्य सुषिरे ग्रहो दृश्यत इति तत्र कि चित्रम् । सुगमात्र वासनेत्यर्थ: ।
अथ जले विलोममिति । जलाद्यस्यां दिशि यावति दूरे यावदुच्च वेण्वग्रादिक वर्तते तत् तस्यां दिशि तावति दूरे तदुच्त्रप्रमाणं भुवः सकाशादधोमुखं कृतं सद्द्रष्ट्रा पुरुषेण जले दृश्यत इति जलदृष्ट्योर्वस्तुशक्तिः । अधोमुखन्यस्तस्य वेणोरग्रे सूत्रस्यैकमग्रं बद्धवा द्वितीयमग्रं पुंरुष दृष्टिमानीयमानं यत्र भुवं भित्वा निगच्छति तद्बन्दुस्थानम् । तत्र जलपात्रम् । पुरुषस्य दृगुच्छ्रयः शङ्कुः ॥ पुरुषजलान्तरं छाया । दृक्सूत्रं कर्ण इति सर्वमुपपन्नम् ॥ १०८ । इदानीमस्योपसंहारश्लोकमाह--
पूर्वमेव विरचय्य यथोक्ततं रञ्जनाय सुजनस्य नृपस्य' ।। १०९ । |
वा • भा०-स्पष्टार्थम् ॥ १०९ ॥
इति सिद्धान्तशिरोमणिवासनाभाष्ये मिताक्षरे त्रिप्रश्नाधिकारस्तृतीयः । अत्र ग्रन्थसंख्या सपादा नवशती ९२५ ॥ १०९ ॥
१. अत्र कस्यचित् पद्यम्--
श्रौतस्मातंविचारसारचतुरः संत्सूक्तिरत्नाकरः
सत्सांवत्सरचक्रवक्त्रकमलप्रोद्बोधने भास्करः ।
आसीद्विप्रवर: सुराचनपरः श्रीभास्करस्तकृते
འཛི་ཡག་ནགས་ཀྱི་ཀ་ विजयते त्रिप्रश्नविस्फूजितम् ॥
ܘܟ- ܘ