मासाः पृथक् ते द्विगुणास्त्रिपूर्णबाणा।५०३धिका स्वाडूनृपांश१६९युक्ताः । |
वा० भा०-कलिमुखादेरारभ्य गताब्दा द्वादश १२ गुणाश्चैत्रादिगतमासयुक्ताः पृथक्कृस्था द्विघ्नाः स्वकीयेन गजाङ्कष्ट ८९८ भागेनोनाः पञ्चषष्टयः।। ६५ भक्ताः फलमधिमासाः ॥ तैः पृथक्स्था युताश्वान्द्रमासा भवन्ति । अत्रोपपत्तिस्त्रेराशिकेन । यदि युगरविमासे ५१८४०००० युगाधिमासा १५९३३०० · लभ्यन्ते तर्देभिः कलिगर्त: किमिति । अत्राधिमासानामधेनानेन ७९६६५० गुणकभाजकावप वक्तितौ जातं गुणकस्थाने द्वयम् २ भागहारस्थाने पञ्चषष्टिः किञ्चिदभ्यधिका ६५ । ४ ।॥ २१ ॥ अतः पऋषष्टिगुणानामधिमासानां १०३५६४५०० द्विगुणानां रविमासानां च १०३६८०००० यदन्तरं ११५५०० । तेन द्विगुणा रविमासा भत्ता लब्धमटाडूगजाः ८९८ । तैद्विगुणाः कलिगतमासा भाज्याः । यल्लभ्यते तेन तान् र्वाजतान् कृत्वा पऋषटया ६५ भागे हुतेऽधिमासा लभ्यन्त इत्युपपन्नम् ।
तैरधिमासैः पृथक्स्था युताश्चान्द्रमासाः स्युः । ते चान्द्रमासाः पृथग् द्विनिघ्नास्त्रिपूर्ण बाणैः ५०३ सहिताः स्वकीयेनाङ्कनृपांशेन १६९ युक्तास्त्रिभिर्भाज्याः । फलमंशाद्यं ग्राह्यम् । तानंशस्त्रिशता ३० विभज्य फलं राशयस्तदुपरि स्थाप्याः । राशिस्थाने मासौघतुल्या राशयश्व क्षेप्याः ॥ एवमसौ सपातसूर्यो भवति । तस्य भु जाँशा यदि चतुर्दशभ्य १४ ऊना भवन्ति तदा चन्द्रग्रहणस्य संभवो वेदितव्यः ।
अत्रोपपत्तिः · ग्रहणं हि मानैक्यार्धादूने विक्षेपे भवति । चन्द्रग्रहे मध्यमं मानैक्यार्ध षट्पञ्चाशत् कलाः ५६ ।। सूर्यग्रहे द्वात्रिशत् ३२ । षट्पञ्चाशत् कलाः शरो द्वादशभिर्भुजभार्गे र्भवति । द्वात्रिशन्मिताः ससभिर्भुजभागैर्भवति । अतः स तु विक्षेपः सपातेन्दोः साध्यते । दशन्तेि यावान् विघुस्तावानेव रविर्भवति ॥ पौणमास्यन्ते तु षड्भाधिकः स्यात् । षड्भाधिकस्यापि भुजस्तुल्य एव ॥ अतः सपाताकद्विक्षेपः कृतः ॥ अतः सपातसूर्यसाधनेऽनुपातः । तत्रार्कपातयोः कल्पभगणानामैक्यं द्वादशभिः १२ संगुण्य राश्यात्मक कार्यम् । यदि कल्पचान्द्रमासेरेभि ५३४३३३००००० रेते राशयो ५४६२७७३४०१६ लभ्यन्ते। तदेकेन किमिति लब्धमेश्को राशिः १ । शेषं त्रिशता ३० संगुण्य तेनैव हारेण भागे ह्रियमाणे ल्ब्धं पूर्णम्० । शेषं भागांशा