पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/274

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रग्रहणाधिकारः । RR୧ भास्वत इत्यायुंध्यते। दर्शान्तोनं दिनदल पूर्वाह्न नतं त्वपराह्न दिनदलोनो दर्शान्तो नतं रविग्रहे स्यात्। नतचतुर्थाश: किल स्थूल लम्बनम् । तत्संस्कृतो दर्शान्तो मध्यकालः स्यात् । पूर्वापराह्नयोर्लम्बनमृणधनम् । पुनर्मध्यकालीनं नतं साध्यम् । इदं नतन्तु केवलदशन्तनतेन पञ्चगुणेन चतुर्भक्तेनैव तुल्यं स्यात् । मध्यकालीनन्तस्य पञ्चमांशः स्थूलं त्रिभोनलग्नार्कान्तरमिति । केवलनतस्य पञ्चगुणस्य चतुभक्तस्य पञ्चमांशो गृहीतः । सोऽपि केवलनतचतुर्थाश एव भवतीति दर्शान्तनाड़ीनताद्वदांशेन गृहादिनोनसहित इति त्रिभीनलग्नं साधितम् । अस्यापम इति त्रिभोनलग्ननतांशाः सोधिताः स्थूलाः । एवं नतांशचतुर्थाशोऽपि स्थूलैव नतिः । इयं नतिः शरे संत्कार्येति शरः स्पष्ट अङ्गलाद्यः स्यात् । अङ्गलाद्यः शरः स्वतृतीयांशोनः सपातचन्द्रभुजांशाः सपातचन्द्रभुजे खगुणांशेभ्यो न्यूने भवन्ति । 'मध्यशरः येभ्यो भुजभागेभ्यो भवति ते तु ज्ञायन्त एव । अङ्गुलात्मकनततुल्यस्य शरखण्डस्य ज्ञातव्या इति त्रिभोनलग्ननतांश अस्वांशोऽधिकोनः खलु यत्र तत्र भागानुबन्धे च लवापवाहे । तलस्थहारेण हर निहन्यात् स्वांशाधिकोनेन तु तेन भागान्। इति सूत्रेण नतांशचतुर्थांशो यावत्स्वत्र्यंशोनः क्रियते तावन्नतांशषडंश एव भवतीति सर्वमवदातम् । सूर्यग्रहे सूर्यचन्द्री समाविति सपातसूर्यः कृतः । चन्द्रग्रहेऽपि चन्द्रार्कयोरन्तरं षट्राशितुल्यमिति सपातसूर्यं एव गृहीतः शरसाम्यादिति न किञ्चिद्विरुद्धम् ।। 2-५ ।। - इति वासनावात्तिके नृसिंहकृतौ पर्वानयनम् । अथ चन्द्रग्रहणाधिकारः इदानीं ग्रहणं विवक्षुस्तदारम्भप्रयोजनमाह- . बहुफलं जपदानहुतादिके' स्मृतिपुराणविदः प्रवदन्ति हि। सदुपयोगि जने सचमत्कृति' ग्रहणमिन्द्विनयोः कथयाम्यतः ॥ १ वा० भा०- स्पष्टार्थम् ।। १ ।। १. मध्यशरमिति कख पु० ॥ , २. एम्यो इति ग पु० ॥ ३. ली० भागानुबन्धभागापवाहयोः करणसूत्रम् । ४. अत्र स्मृतिपुराणवचनानि स्नानं स्यादुष्परागादौ मध्ये होमसुराचने । सर्वस्वेनापि कर्तव्यं श्राद्ध वै राहुदर्शने ॥ अकुर्वाणस्तु नास्तिक्यात् पङ्के गौरिव सीदति । स्नानं दानं तपः श्राद्धमनन्तं राहुदर्शने ॥ सन्ध्यारात्र्योर्न कर्तव्यं श्राद्धं खलु विचक्षणैः । द्वयोरपि च कर्तव्यं यदि स्याद्राहुदर्शनम् । उषस्युषसि यत् स्नान सन्ध्यायामुदिते रवी । चन्द्रसूर्योंपरागे च प्राजापत्येन तत् समम्। 5. जनेशचमत्कृतीत्यपि पाठः । .