पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/275

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३० सिद्धान्तशिरोमणी ग्रहगणिते । वा० वा०-अथ ग्रहणाधिकारो व्याख्यायते। मध्यमस्पष्टत्रिप्रश्नाधिकारैग्ररॆ हिणोदयास्तश्रृङ्गोन्नमनग्रहयुतिनक्षत्रग्रहयुतिपाताधिकारेषु प्रयोजनमिति ते निरूपिताः । अधुना चन्द्रसूर्यग्रहणाधिकारौ कथं निरूप्येते तत्राह ‘बहु फलं जपदानहुतादिके स्मृतिपुराणविदः प्रवदन्ति हि” इति ॥ १। इदानी ग्रहणोपयोगिनीमितिकर्तव्यतामाहसमगृहांशकलाविकली स्फुर्टी रविविधू विदधीत रविग्रहम् । समलवावयवौ तु विधुग्रहं समवगन्तुममुं च तदोक्तवत् ॥ २ ।। वा० भा० सति सम्भवे रविग्रह ज्ञातुममावास्यायां रविविधू तमश्च कृत्वा ततोऽकेन्दू देशान्तरादिस्पष्टीकरणैः स्फुटौ विधाय तिथि च कृत्वा यथोक्ततं नतकमं च ॥ तथा.कृते सति तिथ्यन्तकालिकौ तौ कायाँ तमश्च । एवं चन्द्रग्रहणं ज्ञातुं पौर्णमास्यां च । यतस्ततो । ग्रहणक्रिया । २ ।। वा० वा०-'चन्द्रग्रहण ज्ञातुं पूर्णिमान्तकालिको सूर्यग्रहण ज्ञातुममान्तकालिकौ स्पष्टी चन्द्रार्को कायौं राहुश्च कार्य* इत्याह–समगृहाँशकलाविकलौ स्फुटाविति । समलवावयवावित्यत्र भचक्राद्धान्तरितावेवेति स्पष्टम्। २ ।। इदानीमार्केन्द्वोः कक्षाव्यासार्धे आह- - नगनगाग्निनवाष्टरसा ६८९३७७ रवेरसरसेषुमहीषु ५१९६६ मिता विधोः । निगदितावनिमध्यत उच्छुितिः श्रुतिरियं किल योजनसंख्यया ॥ ३। वा० भा०-स्पष्टार्थम्। अत्रोपपत्तिः-कक्षाध्याये चन्द्रार्कयोः किल कक्षे कथिते । किन्तु व्यासौ न कथितौ । ताविदानों त्रैराशिकेन । यदि भनन्दाग्निमित ३९२७ परिधे: खबणसूर्य १२५० मितो व्यासस्तदा सार्धाद्विगोमनुसुराधिष्मिता ४३३१४९७॥३० कॅकक्षायास्तथा सहस्रगुणितजिनरामसंख्याया ३२४००० श्वन्द्रकक्षाया. क इति । फलं व्यासौ । तयोरर्धे एते श्रुती । इयं भूमध्यात् कक्षाया उच्छुिति:।। ३ ।। १. चन्द्रग्रहे ईति ग पु० । २. कार्यमिति क ख पु० । ३. अत्र भौमादिग्रहाणां नक्षत्राणाश्च योजनकणः । भौमस्य गोकुरसषण्नवसूर्यसंख्या १२९६६१९ दन्ताभ्रषण्नूपमिता १६६०३२ श्रुतिरिन्दुजस्य । पूज्यस्य नागगुणपश्चरसाद्रिभूमि नागा ८१७६५३८ श्ध सर्पाजखाब्धियमाब्धयोऽथ ४२४०८८ ॥ शुक्रस्य सूर्यतनयस्य कुससखाङ्कभूत्र्यभ्रदस्रमित २०३१९०७१ योजनकणं एवम् । नागाक्षषड्यमरसाग्निकुवेदसंख्यो ४१३६२६५८ नक्षत्रमण्डलभवश्रवणो निरुक्तः ।।