पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/277

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३२ सिद्धान्तशिरोमणी ग्रहगणिते । तस्मादसकृन्मन्दकर्णः साध्यः । तत्राचार्येण सूक्ष्मासन्नो मन्दकर्णः साधितः सकृत्प्रकारेण । त्रिज्यातुल्ये स्पष्टमन्दकर्णे शीघ्रकर्णवत्साधितमन्दकर्णोऽपि त्रिज्यातुल्य एव युक्तया भवति । मन्दोच्चनीचोध्र्वाधररेखामानं द्विगुणत्रिज्यामन्दकणेंन त्रिज्यातुल्येनोना जाता त्रिज्यैव । अतोऽनुपातः । त्रिज्यातुल्येन मन्दकर्णद्विगुणत्रिज्यान्तरेण त्रिज्यातुल्यः स्पष्टमन्दकर्णस्तदेष्टमन्दकर्णद्विगुणत्रिज्यान्तरेण क इति व्यस्तत्रैराशिकेन त्रिज्यां कृतिः शेष हृदित्युक्तम् । उच्चसमे कर्णाधिक्यं नीचसमेऽल्पत्वमपेक्षितमिति व्यस्तत्रैराशिकं कृतम् । त्रिज्यातुल्ये मन्दकर्णेऽयं , मध्यमयोजनकर्णस्तदेष्टे क इति स्पष्टम् ।। ४-४ ।। इदानी योजनबिम्बान्याह NA e A NA o /^. YA बिम्बं रवेर्द्विद्विशरतुं६९२२संख्यानीन्दोः खघ्नागाम्बुधि४८०योजनानि' ।॥५॥ 事 NN - NA o * भूव्यासहीनं रविबिम्बमिन्दुकर्णाहतं भास्करकर्णभक्तम् । fn . A. - (- - . Na i - Na Na, . “A । भूविस्तृतिर्लब्धफलेन हीना भवेत् कुभाविस्तृतिरिन्दुमार्गे ।। ६ ।। o वा० भा०-रवेर्योंजनात्मक बिम्ब मध्यम द्वियमबाणषट्कतुल्यानि ६५२२ योजनानि । इन्दोस्तु शून्यवसुवेद ४८० मितानि । अथ राहोरुच्यते । रविबिम्बं भूव्यासेन हीनं ४९४१ कृत्वेन्दुकर्णेन स्फुटेन योजनात्मकेन संगुण्य रविकर्णेन स्फुटेन भजेत् । फलेन भूव्यासो वजितश्चन्द्रकक्षायाँ भूभाव्यासो भवति । एतानि योजनबिम्बानि । अत्रोपपत्तिः---यस्मिन् दिनेऽर्कस्य मध्यतुल्यैव स्फुटा गतिः स्यात् तस्मिन् दिन उदयकाले चक्रकलाव्यासार्धभितेन यष्टिद्वितयेन मूलमिलितेन तत्रस्थदृष्ट्या तदग्राभ्यां बिम्बप्रान्तौ विध्येत् । या यष्टयग्रयोरन्तरकलास्ता रविबिम्बकला भवन्ति मध्यमाः ॥ ताश्च द्वात्रिशत् किञ्चिदधिकैकत्रिशद्विकलाधिकाः ३२ ।। ३१ ॥ ३३ । एवं विधोरपि पौर्णमास्यां यदा मध्यैव गतिः स्पष्टा तदा विध्येत् । तस्यैवं द्वात्रिशत् कलाः ३२ ।। ० ॥ ९ उत्पद्यन्ते । बिम्बकलानां योजनीकरणायानुपातः ॥ यदि त्रिज्याव्यासार्धं एतावत्प्रमाणं बिम्बं तदा पठितश्रुतियोजनैः किमित्येवमुत्पद्यन्ते द्विद्विशरर्तुं ६५२२ संख्यानि योजनानि । विधोस्तु खनागाम्बुधि ४८० मितानीति । अथ भूभाबिम्बस्योपृपतिरुच्यते । अर्कबिम्बब्यासाद्भूव्यासो यतोऽल्पोऽतो भूभा सूच्यग्रा भवति दीर्घतया चन्द्रकक्षामतीत्य दूरं बहिर्गच्छति । अतो भूविस्तृतेः कियत्यपचये जाते चन्द्रकक्षायां भूभाविस्तृतिर्भवतीति ज्ञानायानुपातः । यदि रविकर्णन सूर्यबि म्बभूव्यासान्तरयोजनानि ४९४१ लभ्यन्ते तदा चन्द्रकर्णेन किमिति । फलं भूव्यासस्यापचययोजनानि भवन्ति । अतस्तैर्भूव्यास ऊनीकृतश्चन्द्रकक्षायां भूभाव्यासो भवतीत्युपपन्नम् ।। ४३-६ ।। १. अत्रं श्रीपतिः-- ۔ , व्यासा रवीन्दुक्षितिगोलकानां क्रमेण तेजोजलमृण्मयानाम् । स्युयोंजनैराकृतिबाणषडुमि ६५२२ व्योंमाटवेदैः ४८० कुगजेषुचन्द्र: १५८? । सि. शे. चन्द्रग्र. ३ श्लो.