चन्द्रग्रहणाधिकारः २३३ वा० वा०-रविचन्द्रबिम्बयोजनान्याह-बिम्ब रवेरिति। यदा सूर्यस्य मध्यगतितुल्या स्पष्टा गृतिस्तद्वा सूर्यबिम्बनेमिः क्षितिजे यदा लगति तस्मात् क्रूालात् द्वितीयबिम्बनेमिर्यावद्भिरसुभिः कुजे लगति तेऽसवो ज्ञातव्याः । यद्यहोरात्रासुभिः स्वीयकक्षायोजनानि तदा बिम्बोदयासुभिः किमिति बिम्बयोजनानि भवन्ति। एवं चन्द्रस्यापि। यद्वा त्रिज्यामितशलाकाभ्यां बिम्बप्रान्तौ वेध्यौ तन्मध्ये याः कलास्ता बिम्बकलाः । मध्यगतिकलाभिगतियोजनानि तदा बिम्बकलाभिः किमिति बिम्बयोजनानि । यद्वा सूर्यग्रहणकाले ग्रासाङ्गलानि गणनीयानि तेषु नतिसंस्कृतमध्यकालशराङ्कलानि क्षेप्याणि तानि रविचन्द्रमानैक्यखण्डाङ्कलानि भवन्ति। ततो मानैक्यखण्डेन केन्द्रादूवृतं कार्यम्। तत्र मध्यस्पष्टवलनसूत्रे केन्द्रान्मध्यकालीनो नतिसंस्कृतःशरो यथाशो देयस्तद्ग्राहककेन्द्रम् । ग्रस्तमग्रस्तं च रबिबिम्बं विगणय्य ग्राह्यम् । तदर्द्धेन मानैक्यखण्डकेन्द्रादेव वृत्त कार्यम् । वलनसूत्रस्थमध्यशर्राशनेमिसम्पाते चिह्न कार्यम् । तस्माच्छरान्यदिशि ग्रासाङ्कलानि देयानि । ग्रासान्तचिह्नाद् ग्राहककेन्द्रावधि यत्तद् ग्राहकार्द्धमानं तेनोनं मानैक्यॆखण्डं रविबिम्बार्द्धमानम् । तद् द्विगुणं रविबिम्बमानं चन्द्रबिम्बमानं च कलात्मकम् । स्वस्फुटभुक्तया इदं तदा मध्यगत्या किमिति मध्यमं भवति । ततो योजनानि ज्ञयानि । स्वभूभाविस्तृतिमाह-भूव्यासहीनं रविबिम्बमिन्दुकर्णाहतमिति । रविबिम्बं तैजसं भास्वररूपाधिकरणत्वाद्दीपवत् । रविबिम्बमुद्भूतरूपस्पर्शमेव दृश्यते । सर्व पाञ्चभौतिकमिति रविबिम्बस्यारम्भकभागा अष्टी । तत्र तेजसश्चत्वारो भागाः । भूतचतुष्टयस्य च चत्वारः । तत्र तेजसः प्रधानत्वेन तैजसं रविबिम्बमिति सोमसिद्धान्तविदः प्राहुः । अन्यैरपि तेजसो विरलावयवत्वेन कियतां भूभागानामप्युपष्टम्भकत्वमास्थेयम् 1 रवेः स्वरूपद्वयम् । एकं मण्डलात्मकमन्यत्तदधिष्ठातृदेवस्वरूपम् । ‘यदेतन्मण्डलं तपति यश्चास्मिन् मण्डले पुरुषः' इति पुराणाच्च । चन्द्रबिम्बमाप्यं शीतस्पर्शाधिकरणत्वात् करकावत् । चन्द्रबिम्बेऽपि चत्वारो जलभागाश्चत्वारोऽन्यभूतचतुष्ट्यस्येत्यष्टी । जलप्राधान्याष्ज्जलमयमित्युच्यते । पृथिवीपरमाणुभिरुपष्टब्धा जलपरमाणव एवारम्भकाश्चन्द्रमण्डलस्येत्यन्ये । चन्द्रे यत्परप्रकाशकत्वं ततत्र प्रतिफलितार्ककिरणानामेवेत्यौपाधिकम् । जपाकुसुमसन्निहितस्फटिके लौहित्यमिव । अत एवाहुः 'सलिलमये शशिनिरवेदीर्घदीधितयो मूच्छितास्तमो नैशम् । क्षपयन्ति दर्पणोदरनिहता इव मन्दिरस्यान्तः ॥ १. वृ० सं० ४ अ० २ श्लो० । सि०-३०
पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/278
एतत् पृष्ठम् अपरिष्कृतम् अस्ति