पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/281

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३६ सिद्धान्तशिरोमणौ ग्रहगणिते मित्युच्यते । भूम्या सौराष्लोकस्य कियत्यपि प्रदेशेऽवरुद्धे लब्धात्मक तम एव भूछायाशब्देनोच्यते । योऽयमन्धकारविशेषो ग्रहणावगतः श्रुतिस्मृतिपुराणेतिहाससंहितादिषु राहुरित्युच्यते । ‘तमस्तु राहुः स्वर्भानुरिति' तस्य नामानि वदन्ति । रहयति चन्द्रार्को गृहीत्वा त्यजतीति राहुः । रह त्यागे । स्वराकाशे ग्रहणकाले भातीति स्वर्भानुरिति । सर्वदा पूर्णिमान्ते ग्रहण न दृश्यते। तत्र मानैक्यखण्डाच्छराधिक्यं हेतुः । यद्यपि भानोभर्द्धिस्थितया भूछायया चन्द्रमण्डलस्य पूणिमान्ते पूर्वापरान्तराभावो भवति तथापि विमण्डस्थितस्थचन्द्रस्य क्रान्तिमण्डलस्थया भूछायया शराख्यं दक्षिणोत्तरान्तरं महदिति चन्द्रो भूछायां न प्रविशति । अतो रवेर्भार्द्धस्थोऽपि चन्द्रो न ग्रस्यते तमसा । मानैक्यखण्डाल्पशरे तु ग्रस्यत एवेति युक्तम्। ये तु चन्द्रमण्डलं तैजसमिति वदन्ति तन्मते चन्द्रहणं कथमपि न स्याद् गणितगम्यं च न स्यात् । येऽपि-- सममुडुभिरदृश्यैरङ्कितं दस्रभाद्यवियति सकलदूरे मण्डल तारकाणाम्। इति दृश्यमाननक्षत्राणि चन्द्रकक्षास्थान्येवेत्याहुः । तन्मते चन्द्रकक्षास्थभूभायां सौरमतप्रतिपादितजलमयमण्डलानामत्यल्पशराणा रवेर्भाद्धान्तरितानामुपपातान्नक्षत्रग्रहणं 'चन्द्रग्रहणं च कथं न स्यात् । अस्मन्मते तु शुक्रादिकक्षासु शन्यन्तासु तदूर्ध्वगनक्षत्रकक्षायां च भूर्भाया अभावान्न ग्रहणशङ्कावकाशः। चन्द्रादीनां योजनकर्णा इमे ॥ ५१५६६ चन्द्रस्य । बुधस्य १६६१३२ शुक्रस्य ४२४०८८ रवेः ६८९.३७७ भौमस्य १२९६६१९ गुरोः ८१७६५३८ शनेः २०३१९०७१ भचक्रस्य ४१३६२६५८ ॥ सौरमते तु अष्टेषुखेषुवसुषट्कमितोर्ककर्णश्चान्द्रः खवेदयमचन्द्रशराश्च कौजः । शून्यद्विवेदवसुवस्विनतुल्यसंख्यो बौधस्तु नेत्रवसुनन्दकृताष्टिसंख्यः । रामाग्निमङ्गलकृतार्कवसुप्रसंख्यो जैवः सितस्य रसखाभ्रशशिद्विवेदाः । अश्वाटिपाणिगजरामखनेत्रसंख्यः सौरो रवेविनिहतः खरसैश्च भानाम् ॥ इति केषाञ्चित्कृतिरियम् । एवं बिम्बयोजनान्यपि । चन्द्रस्य ४८० बुधस्य २९९, शुक्रस्य १११२ रवेः ६५२२ भौमस्य १८८५ गुरोः १६६० शनेः *२४०६ । नक्षत्रस्यापि भौमादिग्रहबिम्बसादृश्यादिबम्बकलाः प्रकल्प्य ताभ्यो भचक्रकलाभिः कक्षायोजनानि तदा बिम्बकलाभि: किमिति योजनानि ज्ञेयानि । यद्वा ग्रहनक्षत्रभेदयोगे बिम्बस्पर्शमोक्षान्तरकालं ज्ञात्वा षष्टिघटीभिश्चन्द्रादिग्रहकलास्तदैताभिः किमिति यल्लब्धं तद्द्वगुणं कृत्वा ताभ्यः कलाभ्यो ग्रहबिम्बकलाः शोध्या नक्षत्रबिम्बकलाः भवन्ति । एवं ग्रहबिम्बान्यपि साधनीयानि । तस्माच्चन्द्रव्यतिरिक्तानं भूछायान्तःपाताभावान्न ग्रहणमिति सिद्धम् । १. वाक्यमिदं ग पु० नास्ति । २. ३६ ४६ इति ग पु० ।