पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/284

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रग्रहणाधिकारः २३९, मनुजानामपचारादपरता देवताः सृजन्त्येतान् । स्थलविशेषे तत्रत्य मनुष्यसमुदायादृष्टेनौत्पाताः भवन्ति सङ्घातमरणवत् । तत्प्रतिघाताय नृपःशान्ति राष्ट्रे प्रयुञ्जीत । शान्त्या तत्प्रतिघातः प्रायश्चित्ताचरणेन पापनाश इव । केतवः सहस्रसंख्याकाः ब्रह्मादिपुत्राः ग्रहवच्छरीरधारिणः कल्पायुषजीविनः सदा तिष्ठन्त्येव । देवताज्ञया यत्रापचारस्तत्राभिव्यक्तः केतुर्भवति तमुदितमिति लोको वदति । एवमेकस्यैवापचारेणाप्युत्पातो भवति । श्रृङ्गेर्णकेनेन्दु विलीनमथवाप्यवाङ्मुखमश्रृङ्गम् । सम्पूर्ण चाभिनवं दृष्ट्रवैको जीविताद्भ्रश्येदित्यादि । अलमनेन प्रसङ्गागतशाखास्कन्धगतविचारेण । - प्रकृतमनुसरामः । अस्मद्दृष्टेरावरणीभूतत्वं ग्रहणकर्तृत्वं राहोरस्त्येवेति न किचिद्विरुद्धम्। सूर्यसान्निध्यगतग्रह नक्षत्र द्रष्टुं रविकिरणाभिभूता दृष्टिर्न प्रभवति। दिवसे सन्ध्यासमये च ग्रह नक्षत्रदर्शने रविकिरणाभिभूतत्वं दृष्टेः कारणम् । रविग्रहे सम्पूर्णग्रासे नक्षत्राणि दिवसे दृश्यन्ते तत्र सम्पूर्णग्रास एव कारणम्। मणिसन्निधाने नाग्नेर्दाहकता शक्तिनाशे मणिसन्निधानकारणकल्पनवत्। ननु चन्द्रणाच्छादितं सम्पूर्णरविरस्मद्दृष्टैरभिभवाय न प्रभवति। मेघादिना छादितः कथं दिनगतनक्षत्रदर्शने दृष्टव्यभिभवाय प्रभवतीति । तत्रोच्यते । यथात्र निकटस्थितेन हस्तादिना छादितो दीपो नान्धकारं नाशयति तद्वदत्राप्यवगच्छ ॥ यद्वा वस्तुशक्तिरेवैतादृशी । वह्नदाहकत्वनाशे मणिसन्निधानमेव कारणं न स्फटिकसन्निधानतद्वदत्रापि कार्यानुरूपं सर्वत्र कारणं कल्प्यते । यस्तु ब्रह्माण्डजठरान्तगतं रविस्तमोऽनुदति स कथं स्वावरणीभूतं तिमिरस्तोमं न नाशयतीत्यत्र खनागाम्बुधियोजनाय तत्त्वं चन्द्रबिम्बस्य कारणम् । वस्तुतस्तु रविबिम्बस्य न कोप्यभिभवश्चन्द्रपृष्ठस्थः पितृभिर्यथा स्थितमेव दृश्यते देवासुरैपि यथा स्थितमेव बिम्बं दृश्यते । चन्द्रस्य शृगाकारदर्शनं क्षयवृद्धश्यादिदर्शनमप्यवास्तवम् । ग्रहाणां नक्षत्राणामस्तंगतत्वमप्यवास्तवं तेषामभिभवाभावात् । ग्रहसमागमयुद्धेप्यवास्तवे कक्षाणामूर्ध्वाधरान्तरस्य विद्यमानत्वात्। ग्रहच्छाद्यछादकत्वं मनुष्यदृष्टिगम्यम्। अत एव सूर्यसिद्धान्ते

  • भावाभावाय लोकानां कल्पनेऽयं *मयोदिता इत्युक्तम् ।

अस्तमयसमागमलक्षणं सूर्यसिद्धान्ते*ताराग्रहाणामन्योऽन्यं स्यातां युद्धसमागमौ । समागमः शशाङ्केन सूर्येणास्तमयः* सह ॥ १. सू० सि० ग्रह यु० २४ श्लो० । २. मुद्रितपुस्तके 'प्रदशिता' इति पाठान्तरम् । ३. सू० सि० ग्रहयु० १ श्लो० ४. सूर्येणास्तमनमिति मु० पु०