तत्र ग्रहयुद्धभेदाश्चत्वारः । तथा च वराहः-
१आसन्नक्रमयोगाद् भेदोल्लेखांशुमर्दनासव्यैः |
लक्षणानि सूर्यसिद्धान्ते
२उल्लेखस्तारकास्पर्शी भेदे भेदः प्रकीर्यते । |
अंशानेऽन्तरे यदा द्वावपि स्वल्पबिम्बौ तदा कूटविग्रहाख्यो भेदः । अयमपि
भेदः पराशरेणापसव्याख्यभेदान्तर्गत एव कृतः । अंशाहूनेऽन्तरे उभावपि पृथुबिम्ब
तदा समागम एव नापसव्याख्यं युद्धम् । अत एव तन्त्रोक्तम्
आसन्नावप्युभौ दीप्तौ भवतस्तौ समागमे।
अंशादधिकेऽन्तरे द्वावपि यदा पृथुबिम्बौ तदा समागम एव न कूटविग्रहः।
४'समागमोंऽशादधिके भवतश्चेद्बलान्वितौ ।
अत्र बलशब्देन स्थानादिबलं न ग्राह् किन्तु रूपबलमेव ग्राह्यमिति शाकल्य
संहितायामुक्तम् । 'स्थानादिबलचिन्तात्र व्यर्था केनापि न स्मृता' । ‘प्रश्नत्रयेऽथवाप्य
स्मिन् स्थौल्यसौक्ष्म्यबलं स्मृतम्' इति । अंशादधिकेऽन्तरे यदा द्वावपि स्वल्पौ तदा
कूटविग्रह एव न समागमः । अंशान्न्यूनेऽन्तरेऽपि यदा द्वावपि स्वल्पौ तदापि कूटवि
ग्रह एव । अत एवाविशेषेणोक्तम् ।
‘स्वल्पौ द्वावपि विध्वस्तौ भवेतां कूटविग्रहः ।। इति ।।
फलितोऽयमर्थः । तारकास्पर्शी निमित्ते उल्लेखाख्यं युद्धम् । तारकाभेदे निमित्ते
भेदाख्यं युद्धम् । अंशुयोगे निमित्तेंऽशुविमर्श ख्यिं युद्धम् । अंशावूनान्तरयोरेकस्याणुत्वे
निमित्तेऽपसव्याख्यं युद्धम् । द्वयोरणुबिम्बत्वे निमित्तं कूटविग्रहाख्यं युद्धम् । द्वयोः पृथु-
बिम्बत्वे निमित्ते समागम एव न युद्धम् । अन्यथा युद्धसमागमसंकर इति भौमादिपर
स्परयोगस्य सप्त भेदाः भवन्ति
‘भेदे दृष्टिविनाशो भेदः सुहृदां महाकुलानां च। |
१. बृ० सं० १७ अ. ३ श्लो०
२. सू० सि० ग्रहयु० १८-१९ श्लो० । मु० पु० 'उल्लेखं तारकास्पर्शादिति पा ० ।।
३. सू० सि० ग्रहयु० २२ इलो० । मु० पू० 'वतश्चेत्समागमःइति ।
४. सू० सि७ ग्रहयु० २० श्लो० ।
५. सू० सि० ग्रहयु० २२ श्लो० । मु० पू० 'कूटविग्र हो’ इति पाठान्तरम् ।
६. बृ० सं० १७ अ० ३ श्लो० । ७. वृ० सं० १७ अ. ४ श्लो० ।
.
भूतांश " इति ग पु० । ९. क्षदत्रमी इति ग पु० ।