इदानीं ग्रहणे छाद्यच्छादकत्वं प्रतिपादयति । भूभा विधुग्रहणे विधु छादयति रविग्रहणे तु रवि विधुश्छादयति।
अत्रोपपतिः-अत्र क्वर्कव्यासान्तरमितानां योजनानां रविकक्षायां कलाकरणायानु
पातः । यदि गतियोजनैः ११८५& गतिकला लभ्यन्ते तदा क्वकव्यासान्तरयोजनैः
किमिति । अत्र रविगतेः क्वर्कव्यासान्तरं गुणः ४९४१ । गतियोजनानि हरः ॥ एतौ वसुबसु
नवभि ९८८ रपवर्तिती जाता गुणस्थाने पश्च ५ । हरस्थाने द्वादश १२ । फल रविगति
सम्बन्धिन्योऽपचयलिसाः ।
अथ भूव्यासस्य चन्द्रकक्षायां लिसाकरणार्थमनुपातः । यदि गतियोजने
११८& श्र्चन्द्रगतिकला लभ्यन्ते तदा भूव्यासयोजनैः १५८१ किमिति ॥ अत्र गुणकार्धेन
गुणकभाजकावपवर्तिती जात गुणकस्थाने द्वयम् २ । भागहारस्थाने पञ्चदश १५ । । फल भूव्या
सकलाः । एताभ्यः पूर्वकलाः शोध्याः । यत उपर्युपरि गच्छन्त्या भूभाया विस्तृतिरपञ्चयिनी
भवति । शेषोपपत्तिगले सविस्तरा । ९ ॥
इदानी चन्द्रविक्षेपानयनमाह—
सपाततात्कालिकचन्द्रदोष्ज्र्या खभैः २७० हता व्यासदलेन भक्ता । |
वा० भा०-यस्मिन् काले विक्षेपः साध्यस्तस्मिन् काले तात्कालिकयोश्चन्द्रपातयोर्योगः
कर्तव्य इति साधारण्येनोक्तम् । इह चन्द्रग्रहणावगमे समकलस्य चन्द्रस्य तात्कालिकपातस्य
च योगः कर्तव्यः । तस्य दोज्य खभैः २७० गुण्या त्रिज्यया भाज्या फलं कलात्मकश्चन्द्रविक्षेपः ।
स च बाणसंज्ञः । यदि षड्भादूनः सपातचन्द्रस्तदोत्तरो ज्ञेयो यदा षड्भाधिकस्तदा।
दक्षिणो ज्ञेयः ।
अत्रोपपत्तिः-चन्द्रो हि विमण्डले भ्रमति क्रान्तिमण्डलस्य विमण्डलस्य च यः
संपातस्तस्य पातसंज्ञा । स पातो मीनान्ताद्विलोमं गच्छति । तस्मात् पातादग्रतस्त्रिभेऽन्तरे
तद्विमण्डलं सार्धेश्चतुभिः ४ ॥ ३० भागैः क्रान्तिवृत्तादुत्तरतो भवति । पातात् पृष्ठतस्त्रि
भेऽन्तरे तैरेव भागैः ४ || ३० दक्षिणतो भवति । अथ विमण्डलगतस्य चन्द्रस्य क्रान्तिमण्ड
लेन सह यदन्तरं स याम्योत्तरो विक्षेपः । तज्ज्ञानार्थं चन्द्रपातयोरन्तरं ज्ञेयम् । तच्च चन्द्र
पातयोय गे कृते भवति । पातस्य विलोमगत्वात् । तस्य सपातचन्द्रस्य दोष्ज्र्ययानुपातः । यवि
त्रिज्यातुल्यया दोज्र्यया परम: खमुनियम २७० कलातुल्यो विक्षेपस्तदानया कियानिति। फल
मिन्दुविक्षेपः ॥ यतः पातादग्रतः षड्भं क्रान्तिवृत्तादुरतोऽन्यद्दक्षिणतोऽतः सपातशीतद्युतिगोल
दिक्क इत्युपपन्नम् ॥ १० ॥
इदानी ग्रहणे ग्रासप्रमाणमाह- -
· ܓܟ 朝 Fa ـــــــــ۔
यच्छाद्यसंछादकमण्डलैक्यखण्ड शरोन स्थगितप्रमाणम् । |