। वा० भा०-स्पटार्थम्।
अत्रोपपत्तिः-रवेरग्रतो भार्धान्तरे क्रान्तिवृत्ते भूभा भ्रमति । अतः पौर्णमास्यन्ते भूभा
चन्द्रौ समौ भवतः । किन्तु याम्योत्तरमन्तरं विक्षेपतुल्यं भवति । स विक्षेपश्छाद्यच्छादक
बिम्बमध्ययोरन्तरम् । तद्यदा बिम्बार्धक्यसमं तदा बिम्बप्रान्तयोर्योगमात्र स्यात् । यदा यावता
मानैक्यार्धादूनं तावच्छाद्यबिम्बे छादकबिम्बं प्रविशति ॥ अत उक्तं तत् स्थगितप्रमाणमिति । तत् स्थगित छाद्यबिम्बादधिक यदा भवति तदा सर्वग्रहणमित्यपि सुगमम्। ११ ।
इदानी स्थितिमर्दार्धयोरानयनमाह
मानार्धयोगान्तरयोः कृतिभ्यां शरस्य वर्गेण विवर्जिताभ्याम् । ; |
वा० भा०-स्पष्टार्थम्। •
- , अत्रोपपत्तिः—स्पर्शकाले तु बिम्बगर्भयोरन्तरं मानैक्यार्धम् । तच्च कर्णरूपं भवति ।
तत्र यः शरः सा कोटिः । कर्णकोटच्योर्वर्गान्तरपदं भुजः ॥ तच्च ग्रहकमार्गखण्डम् । तत्क्रमण
कालायानुपातः । तच्चन्द्रार्कयोः प्राग्गमनाद्भुक्त्यन्तरेण । यदि भुक्त्यन्तरतुल्यकलाभिः षष्टि
६० घटीरकेन्दू क्रामतस्तदा लब्धाभिभुजकलाभिः कियत्य इति ॥ फलं स्थित्यर्धघटिकाः ॥ परं
स्पर्शकालशराज्ञानान्मध्यग्रहणशरेणैतत् कमं कृतमतः स्थूलं स्थित्यर्धं जातम् ।
अथ मर्दार्थमुच्यते। यदा छादकेन छाद्य समग्रे छन्ने संमीलनमान तदा बिम्बगर्भयोरन्तरे
बिम्बार्धान्तरतुल्याः कला भवन्ति । ताश्च कर्णरूपाः । तस्मिन् काले यावान् विक्षेपस्तावती
कोटिस्तयोर्वर्गान्तरपदं ग्राहकवत्र्मखण्डं भवति । तत्रापि पूर्ववदनुपातेन घटिकात्मकः कालो
मईखण्ड भवति। सोऽपि स्थूलः। १२ ।
स्थित्यर्धनाडीगुणिता स्वभुक्तिः षष्टया ६० हृता तद्रहितौ युतौ च । |
१. अत्र बापूदेवोक्त सकृत् प्रकारेण स्थित्यर्धयोरानयनं वक्ष्यमाणं मदखण्डयोरानयन
ग्रासादिष्टकालानयनञ्च
पूर्णान्तकाले विधुमार्गणो यः स बाणसंज्ञो रविशीतरश्म्योः । - 7 |
स्थित्यर्धकाभ्यां रहिते स्वकीयस्थित्यर्धके स्त: पृथगिटकाली । "