वा० भा०-स्पष्टार्थम् ।
अत्र स्पर्शकालभवशरेण कोटिरूपेण कर्म कार्यम् । एवं स्थित्यर्धमसकृत् स्फुट भव
तीति सुगमा वासना ॥ १३ ॥
इदानीमेवं विमर्दार्धमपीत्यतिदिशति
एवं विमदर्धफ्लोनयुक्स्पातचन्द्रोद्भवसायकाम्यामू
पृथक् पृथक् पूर्ववदेव सिद्धे स्फुटे स्त आद्यान्त्यविमर्दखण्डे ॥ १४ ।।
वा० भा० - स्पष्टार्थम् ॥ १४ ।
इदानीमिष्टकाले भुजानयनमाह
स्पर्शाग्रतः स्पार्शिकमष्टमुक्त प्राङ्मोक्षतो मौक्षिकमत्र पूर्वेः ।
वीष्टेन निघ्नाः स्थितिखण्डकेन भुक्त्यन्तरांशा भुज इष्टकाले ॥१९॥
एवं विमर्दार्धहताः पृथक् ते संमीलनोन्मीलनयोर्भुजौ स्तः ।
वा० भा०--पूर्वार्धं स्पष्टार्थम् । इष्टोनेन स्थितिखण्डेन गुणिता भुक्त्यन्तरभागाः कला
त्म
को भुजो भवति । एवं त एब भुक्त्यन्तर्राशाः प्रथमविमर्दार्धगुणा: संमीलनभुजो भवति । द्वितीय
गुणास्तदोन्मीलने ।
अत्रोपपत्तिः - इष्टकाले यत्र ग्राहकबिम्बमध्यचिह्नं यत्र च मध्यशराग्रचिह्न तयोरन्तरं
ग्राहकमार्गखण्ड भुज इहोच्यते । तस्यानयन त्रैराशिकेन । यदि घटीषटचा भुक्त्यन्तरकला
लभ्यन्ते तदेष्टीनस्थितिदलेन किमिति । अत्र गुणकभाजकयोः षष्टयापवर्तने कृते जाता भुक्त्यन्त
रांशा गुणकस्थाने । हरस्थाने रूपम्। एवं विमर्दार्थाभ्यां मर्दभुजौ। १५-१५३।
इदानी कर्णार्थमाह— s
कोटिश्च तत्कालशरोऽथ कोटीदोर्वर्गयोगस्य पदं श्रुतिः स्यात् ॥१६॥
मानैक्यखण्ड श्रुतिवर्जितं सद्ग्रासप्रमाण भवतीटकाले। ।
वा० भा०--इष्टकाले यावांश्छर: सा तत्र कोटि:। कोटिभुजवर्गयोगपर्व कण: । कणोंन
मानक्यधमिष्टकाले ग्रासप्रमाण भवति ।
अत्रोपपत्तिः – भुजोऽत्र क्रान्तिवृत्ते प्राच्यपरस्तस्माद्याम्योत्तरः शरोऽतः कोटिः ॥ तद्वर्ग
योगपदं कर्ण इत्युचितम् । 'कर्णो नाम बिम्बमध्ययोरन्तरम् । स यावता मानैक्यार्धादूनो भवति
तावद्ग्राहकबिम्बं ग्राह्रो प्रविष्टम् । अतस्तावानिष्टकाले ग्रास इत्युपपन्नम् । १५३-१६३ ।
इदानी ग्रासात् तत्कालज्ञानमाह
ग्रासोनमानैक्यदलस्य वर्गाद्रविक्षेपकृत्या रहितात् पदं यत् ॥ १७ ।
गत्यन्तरांशैर्विहृतं फलोनं स्थित्यर्धकं स्वं भवतीष्टकालः ।
तत्कालबाणेन मुहुः स्फुटोऽग्रे वक्षेऽन्यथा वा परिलेखतोऽमुम् ।।१८।।