पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/293

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४८
सिद्धान्तशिरोमणी ग्रहगणिते

 वा० भा०-- तयोः पलोद्भवायनयोर्वलनचापयोः समाशयोर्योगो भिन्नाशयोरन्तरं तस्य
ज्या मानैक्यार्धगुणा त्रिज्यया भक्ता फलं स्फुटा वलनज्या भवति । येरिदं वलनद्वयमुत्क्रमज्या
विधिनोक्त सम्यङ् न ते गोलगति विदन्तीति गोल परिभ्राम्य दिशा वलनस्योत्क्रमज्ययोपचयः
क्रमज्यया वेति तैः सम्यक् क्वापि नावलोकितमित्यर्थ: ।

 अत्रोपपतिगले सविस्तरा। इह सममण्डल द्वछुः प्राची सममण्डलादिछे नते काले
विषुवन्मण्डलप्राची यावता यतश्चलिता तावत् तद्दिक् पलोद्भवं वलनं ज्ञेयम् ॥ अथ विषुवन्मण्ड
लात् क्रान्तिवृत्तप्राची यावता यतश्चलिता तदायनं तद्दिग्ज्ञेयम् । तयोर्योगवियोगात् स्फुटमिति ॥
सममण्डलात् क्रान्तिमण्डलप्राची यावता यतश्चलिता तत् स्फुटमित्यर्थः ॥ एवं त्रिज्यापरिणतं तद
त्रानुपातेन मानैक्यार्धपरिणतं कृतम् । यतोऽत्र मानैक्यार्धवृत्ते वलनं देयम् ॥ २१३-२३ ॥

 वा० वा०-भाष्यानुक्तामधुना वलनोपपतिरुच्यते खाडूाहतमिति । युत
यनाशोडुपकोटिशिञ्जिनी इति

 वलति तद्वलनम् । सममण्डलं हि द्रष्टुः प्राची । ग्राह्यबिम्बेऽपि पूर्वापरसूत्र
व्यवहारो द्रष्टुः सममण्डलसूत्रानुसारेणैव भवति । अयं ग्राह्यमण्डलस्य पूर्वभाग
इत्यादि । क्रान्तिमण्डले गच्छतोग्राह्मग्राहकयोः स्पर्शमोक्षौ भवतः क्रान्तिमण्डलपूर्वा
परसूत्रानुसारेण । निरक्षदेशे ग्राह्यबिम्बकेन्द्र यदा नाडीमण्डलक्रान्तिमण्डलसम्पाते
तदा बिम्बे बिम्बप्रान्तनाडीमण्डलसम्पातद्वययोः सूत्रं सममण्डलसूत्रं स्यात् । एवं
बिम्बप्रान्तक्रान्तिमण्डलसम्पातद्वययोः सूत्रं बिम्बे क्रान्तिवृत्तानुसारिपूर्वापरसूत्रं
स्यात्। ग्राह्यकेन्द्राद्यत्र सममण्डलानुसारिपूर्वापरचिह्न बिम्बप्रान्ते तस्माद्यावतान्तरेण
क्रान्तिवृतानुसारिपूर्वापरचिह्न बिम्बप्रान्तगं वलितं तावद्वलनमित्यन्वर्थम्।

 निरक्षे तु नाडीमण्डलमेव सममण्डलम्। बिम्बमध्ये यावती क्रान्तिबिम्बपूर्व
प्रान्ते च यावती क्रान्तिस्तदन्तरतुल्यं बिम्बप्रान्तगतक्रान्तिमण्डलचिह्मवलनम् । नाडी
मण्डलक्रान्तिमण्डलचिह्नसम्पातगतस्य बिम्बकेन्द्रस्य क्रान्तिः शून्यैव । सायनग्राह्यस्य
बिम्बार्द्धकलायुतसायनग्राह्यस्य च क्रान्त्यन्तरमायनवलनं तत्साध्यते ।

 यदि त्रिज्या तुल्यया कोटिज्यया तत्त्वाश्वि२२५तुल्यं भोग्यखण्डं तदेष्टसायन
ग्राह्यकोटिज्यया किमिति स्पष्टभोग्यखण्ड भवति। यदि तत्वाश्विप्रमाणेनेदं तदा
ग्राह्यबिम्बार्द्धप्रमाणेन किमिति बिम्बकेन्द्रबिम्बपूर्वप्रान्तदोज्ययोरन्तरं जातम् । ततः
क्रान्तिज्यासाधनार्थमनुपातः ।

 त्रिज्यातुल्यदोज्र्यया जिनज्या तुल्या क्रान्तिलभ्यते तदा दोज्यन्तिरेण
किमिति जातं बिम्बे नाडीमण्डलप्राच्याः क्रान्तिमण्डलप्राचीवलनम् । अस्य धनुः कत्तु'
न शक्यतेऽतस्त्रिज्यावृत्ते परिणाम्यते । यदि बिम्बाद्धव्यासार्द्र इदं तदा त्रिज्या
व्यासार्द्र किमिति जातं'युतायनांशोडुपकोटिशिञ्जिनीजिनांशमौव्यगुणिता विभाजिता द्युजीवयेति ।