पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/295

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५०
सिद्धान्तशिरोमणी ग्रहगणिते

 या साधिता नतासुज्या सा त्रिज्यावृत्तेऽतो द्युज्यावृत्ते परिणाम्यते । यदि
त्रिज्यावृत्ते नतासुज्या तदा द्युज्या वृत्ते केति द्युज्यावृत्तोपवृत्तयोस्तुल्यैव नतासुज्या
या सा जाता । सममण्डलवशेन दक्षिणोत्तर (याम्योत्तर ?) वृत्तक्षितिज्यासङ्गमे
भवति । अयं सङ्गमः समसंज्ञः । एवमक्षांशकैर्वृत्तं समाख्यात् परितो न्यसेत् । तदपि
भांशैरङ्कयम् । समकीलकयोः प्रोक्तं तथा याम्योत्तरं चलं कृत्वा खेटोपरि न्यसेत् ॥
यैरंशैयम्यिोत्तरवृत्तादुष्पवृत्ते नतं भवति तैरेव ध्रुवादप्यक्षवृत्ते नतं भवति । पूर्वानुपातेन
यावती द्युज्यावृत्ते नतासुज्या सिद्धा तावती उपवृत्ते नतांशज्येति सिद्धम् । तत उपवृत्त
व्यासार्द्र इयं तदाऽक्षज्याव्यासार्द्र केति द्युज्या व्यासाद्धीनुसारेण । चापीकरणार्थ
त्रिज्यावृत्तपरिणामः । द्युज्या व्यासाठें इयं तदा त्रिज्या व्यासार्ढेकेति द्युरात्रनता
दाक्षं वलनं भवति । पुनस्त्रिज्यावृत्ते इदं तदा बिम्बव्यासाद्धे किमिति कर्त्तव्यं तन्न
कृतं यतस्तत्र वलनं न दत्तं मानक्याद्धं देयमस्तीति ।

 यद्वा समकीलकद्वयप्रोतचलयाम्योत्तरवृत्ते ग्रहोपरि न्यस्ते खाद्धंद्येरंशै
श्चलयाम्योत्तरवृत्तं सममण्डले लगति । तॆऽशाः समवृत्ते नतांशाः ज्ञेयाः । समवृत्तनतां
शज्याक्षया परिणता कृतयुज्यानुपातात्पलजं सम्यग्वलनं भवति । यद्वा दिनाद्धतुल्य
.. नतघटीभिर्नवत्यंशास्तदेष्टाभिः किमिति स्थूलनतांशा भवन्ति । तज्ज्याक्षज्या परिणता
कृतद्युज्यानुपाताक्षजं स्थूल वलनम्।

 यद्वा ध्रुवाज्जनितलवान्तरे अपमण्डलयाम्योत्तरा कदम्बसंज्ञा । ध्रुवाज्जिन
लवान्तरे वृत्तं कार्यम् । कदम्बद्वये' प्रोतचलयाम्योत्तरवृत्ते ग्रहोपरि कृते द्वन्द्वान्ताच्चा
ल्यन्तेंऽशैर्यैस्तैरेव चलति । ध्रुवाज्जिनवृत्ते तदंशानां · तत्र ज्याक्रान्तिशिज्जिनी सैवा
यनवलनम् । अथवा परितः खेटात् खाङ्कभागान्तरे त्रिज्यावृत्ते न्यस्ते विषुवत्समवृत्त
योरन्तरमाक्षं वलनम् । विषुवक्रान्तिवृत्तयोरन्तरमायनं ज्ञायते ।

 यद्वा समध्रुवकदम्बानामुपरि द्युचरान्त्रयेत्सूत्राणि वृतरूपाणि वलने स्तस्त
दन्तरे। एवं बहुभिः प्रकारैर्वलनवासनामाचार्यों गोले प्रतिपादयिष्यते। तत्रायन
दिक्कमायनवलनम् । प्राङ्नते सौम्यं पश्चिमघ्नते याम्यमाक्षं वलनं गोलोपरि प्रत्यक्षं
दृश्यते । यत्र क्रान्तिवृत्तसमवृत्तसम्पातस्तत्र परमं स्पष्टवलनम् । अग्रतः पृष्ठतस्तस्मात्
क्रान्तिवृत्ते त्रिभेऽन्तरे तयोर्याम्योत्तरैकत्वात् तत्र नो वलनं स्फुटम् । यदा क्रान्ति
वृत्तमेव यस्मिन् देशे समवृत्तं भवति तदा तस्मिन् देशे स्पष्टवलनाभावः ।

 अयनाक्षवलनयोस्तुल्ययोर्दिगन्यत्ववियोजनेन शून्यशेषत्वात् क्रमज्या · वलनं
साध्यम् ।' गोलोपरि क्रमज्यारूपमेव वलनं दृश्यते नोत्क्रमज्यारूपं वलनम् ।
‘उत्क्रमज्या यतो बाणः शिञ्जिनी तु क्रमज्यकेति ।' यत्र किल वृषभान्तक्रान्ति
तुल्योऽक्षस्तत्र वृषभान्तस्थोऽर्को दिनाद्धं खस्वस्तिके भवति तदा क्रान्तिवृत्तं च


१. द्वय इति ग पु० । 
२. गोले परि इति ग पु० ।