पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/296

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५१
चन्द्रग्रहणाधिकार:



दृङ्मण्डलाकारं स्या|त्सत्रिभोऽकर्णो राशिपञ्चकं सिहान्तः स च स्वाहोरात्रक्षितिजे
सम्पाते भवति। तस्मादायनवलनं प्रत्यक्ष सिहान्ताग्रासमं दृश्यते । तावदेव स्पष्टवलनं
खमध्यस्थितत्वेनार्कस्याक्षवलनाभावात् ।

 क्रमज्यां विना नेदमग्रारूपं वलनं सिद्धयति । अतो द्युज्यानुपातोऽप्या
वश्यकः । यद्वा यत्र देशे जिनभागेभ्योऽल्पाक्षांशास्तत्र देशेऽक्षज्यामेव क्रान्तिज्यां
प्रकल्प्य तस्याः क्रान्तिज्यातो विलोमेनाकः साध्यः । स यावान् राश्यादिर्भवति
तदकद्राशित्रयं शोध्यम् । यदवशिष्यते राश्यादिस्तत्तुल्योऽकर्गे यदा तत्र देशे पूर्व
क्षितिजे भवति तदा स्पष्टवलनाभावः । -

  ल्याक्षाशदेशे कुम्भान्तार्के पश्चिमक्षितिजस्थे समवृत्तक्षितिज
सम्पातात् कुम्भान्ताहोरात्रवृत्तक्षितिजसम्पातं यावदाक्षं वलनम् ।

 कुम्भान्ताहोरात्रक्षितिजसम्पातात्समवृत्तानुकारिक्रान्तिमण्डलक्षितिजसम्पातं
यावदायन वलनं स्यात्। एवं तत्रैव देशे। सिहान्ताकें पूर्वक्षितिजस्थे स्पष्टवलनाभाव:।

 नोत्क्रमज्यया स्पष्टवलनाभावः स्यात् । यत्र देशे षद्षष्टिभागाः पलस्तत्र
मेषादौ क्षितिजस्थे सर्वेऽपि `ौराशयः क्षितिजस्थाः भवन्ति । तदा गोले निबद्धं क्रान्ति
वृत्तमेव क्षितिजं भवतीति भावः ।

 तदा मेषादौ 2वृषभादौ मिथुनादी वा स्थिते रवौ परम त्रिज्यातुल्यमेव
स्पष्टवलनं स्यातू । यतः क्रान्तिवृत्तप्राची उत्तरां गता ।
 ' ' . अङ्गरसभागाक्षांशदेशे यदा मेषादावुदितोऽर्कस्तदा तत्रत्य सममण्डलमेवोपवृत्तं भवति । तत्र द्युज्यावृत्तोपवृत्तैक्ये रविबिम्बकेन्द्रे न्यस्ते त्रिज्यावृत्तं °याम्योत्तरवृत्तमेव जातमतस्त्रिज्याग्रे उपवृत्तमधः स्वस्तिके लग्नम् ।

 मेषादौ द्युज्यावृतं नाडीमण्डलमेव । तयोरन्तरांशा अधःस्तनयाम्योत्तरवृत्ते
६६ अक्षवलनम् ।

 नाडीमण्डलरूपद्युज्यावृत्ताद्विम्बकेन्द्रातू त्रिज्याग्रगतक्रान्तिवृत्तचिहूं मिथुना
न्तयावत्परमक्रान्त्यंशा अायनं वलनं, नवतितुल्यं स्पष्टवलनम् ।

 तत्र देशेऽक्षज्या ३१४० मेषादिगे रवौ द्युज्या ३४३८ चरासवः ०॥० क्षिति
जस्थेऽकें नतघटिकाः १५ वृपादिगे द्युज्या ३३३६ चरासवः १६७० नतघटिकाः १९॥३८
अायनवलनचापांशाः २१॥४ आक्षवलनचापांशाः ६८५६ स्पष्टवलनस्य नवतितुल्याः ।

 मिथुनाग्रे द्युज्या ३३१८ चरासवः ३४६५ नतघटिकाः २४२७ अयनांशाः
१२||३२ आाक्षस्य ७७॥२८ स्पष्टस्य ९० क्षितिजे यत्र क्रान्तिमण्डलावयवे ग्रहस्तस्मात्
त्रिज्यावृत्तं कार्यम् । तस्य ग्रहस्य द्युज्यावृत्तं ज्ञेयमग्रा च ज्ञेया । समवृत्तादग्रान्तरे
सर्वत्रोपवृत्तं कल्प्यम् । क्षितिजस्थग्रहकेन्द्रात् त्रिज्याग्रे यावदुपवृत्तात् द्युज्यावृत्तं


१. राश्य क ख पु० श य इति ग पु० च । २. अयमंशः क ख पु० नास्ति ।
३. भाभोत्तर इति क ख पु० पाभोत्तर इति ग पु० च ।