केन्द्र ध्रुवः । स उत्तरकदम्बाज्जिनलवैरधो दक्षिणकदम्बादुपरि भवति । सममण्डलकेन्द्रं समसंज्ञकः । स उत्तरध्रुवादधो दक्षिणध्रुवादुपर्य्यक्षांशैर्भवति । कदम्बात्परितो जिनांशैजिनवृत्ताख्यं कार्यम् । ध्रुवात् परितोऽपि जिनांशैः कदम्बभ्रमाख्यं वृत्तं कार्यम् । एवमक्षांशकैः समाख्यात्परितोऽक्षवृत्ताख्यं च कार्यम् । क्रान्तिवृतग्रहस्थानचिन्हातू समध्रुवकदम्बानामुपरि सूत्राणि वृतरूपाणि नेयानि । तत्र कदम्बानामुपरि सूत्राणि वृत्तरूपाणि नेयानि । तत्र कदम्बसूत्रे क्रान्तिवृत्तग्रहस्थानचिन्हाद्गणितागतशरो देयः । ध्रुवसूत्रे स्पष्टशरो देयः । शराग्रस्थितद्युज्यावृत्ते अायनं दृक्कर्म भुजः ।। क्रान्तिवृत्तग्रहस्थानचिह्नात् । कदस्बपर्यन्तं त्रिज्या कर्णः ।। क्रान्तिवृत्तग्रहस्थानाद् ध्रुवपर्यन्तं ज्यारूपं सूत्रं कोटिः । कदम्बध्रुवसूत्रयोरन्तरमायनवलनज्या भुजः । ध्रुवसमसूत्रयोरन्तरमक्षवलनम् ।। क्रान्तिवृत्तग्रहस्थानाद् ध्रुवपर्यन्तं ज्यारूपं सूत्रं कोटिः । अाक्षं दृक्कर्म भुजः । स्पष्टशरः कोटिरिति । एवं सर्वोऽपि वलनवासनाप्रपञ्चो दृक्कर्मवासनायां योजनीयः' ।
ननु क्रान्तिवृत्तकेन्द्रत्वं प्राप्तः कदम्बः स्थिर एव सर्वदा याम्योत्तरवृत्ते स्यात्ततो भ्रमति गोले । स मकरादिर्यथा यथा तथा तथा भ्रमत्येष: कदम्बो निजमण्डल इत्यनेन स चायुक्त इति चेन्न । अत्र कदम्बभ्रमणं तत्सूत्रभ्रमणपरम् । यद्वा वासनाभेदकथनार्थमीदृश एकः कदम्बोऽन्यः पारिभाषिक इति कदम्बद्वैविध्यं स्वीकृतमिति न कोऽपि दोषः। अत एवास्माभि: सौरभाष्ये पारिभाषिककदम्बसूत्रे शरो देय इत्युक्तम्। कदा ध्रुवात् कदम्ब उपर्यंधो भवतीति प्रतिपादनार्थ तत्कालयाम्योत्तरस्थराशिचिह्नान्नवतिभागान्तरे याम्योत्तरवृत्ते कदम्ब इत्यन्यः कदम्बः स्वीकृतः । एवं वलनवासनागोले वासनाभाष्ये प्रतिपादिता सा 2युतवेत्युपरम्यते ॥ २०-२३।
श्रीमत्कौङ्कणवासिकेशवसुतप्राप्तावबोधाद्बुधाद् |
इदानीमङ्गुललिसार्थमाह--
त्रिज्योद्धृतस्तत्समयोत्थशङ्कुः |
१. योजनीयाः, इति क ख पु० । २. युतैवे’ ‘इति ग पु० ।
३. धिकृत इति ग पु० ।