दत्तस्तत् कथं भुजो ग्राहकमार्गखण्डमित्युच्यते । सत्यम् ॥ यत्र कुत्रचिद्भुजकोटिकर्णेस्त्र्यस्रमुत्पद्यते तदवश्यमायतचतुरस्रार्धं स्यात् ॥ तदत्र भुजाग्राद्विक्षेपः कोटिः ॥ एवं भुजमूलादपि ॥ विक्षेपमूलयोरन्तरे यावान् भुजस्तावान् विक्षेपाग्रयोरपि । अतो ग्राहकमार्गखण्र्ड भुज इत्युच्यते तददुष्टम्। ३०-३०३ ॥ Y6,
इदानीमन्यथा संमीलनादिपरिलेखमाह -
ये स्पर्शमुतयोर्विशिखाग्रचिहे ताभ्यां पृथङ्मध्यशराग्रयाते। ३१ । |
वा० भा० -स्पर्शशराग्रान्मध्यशराग्रयाता रेखा कार्या। स प्रग्रहमागों ज्ञेयः । अथ। मध्यशराग्रान्मुक्तिशराग्रगा पृथगन्या रेखा कार्या । स मुक्तिमार्गो ज्ञेयः । तयोर्मार्गयोः प्रमाणे अङ्गुलशलाकया मित्वा पृथगनछे स्थाप्ये । अथ बिम्बान्तरार्धप्रमाणेन सूत्रेण केन्द्र वृत्तमुत्पाद्य तस्य वृत्तस्य मार्गद्वयेन यौ योगौ तस्माद्योगद्वयचिहात् भूभार्धसूत्रेण वृत्ते विधाय संमीलनोन्मीलने ज्ञातव्ये ।
अत्रोपपत्तिः-स्वमार्गेणागच्छतो ग्राहकमध्यस्य यत्र मानान्तरार्धतुल्यः कणों भवति तत्रस्थे तस्मिन् ग्राहके संमीलनमुन्मीलनं च यत उत्पद्यते। ततो बिम्बान्तरार्धेन वृत्तं विलिख्य ते स्थाने ज्ञातव्ये ३०३-३२३ ॥
इदानीमिष्टग्रासार्थमाह—
मार्गाङ्गुलघ्नं स्थितिखण्डभक्तमिष्टं स्युरिष्टाङ्गुलसंज्ञकानि ॥३३॥ |
वा० भा०—इष्टमितीष्टकालो घटिकादिरनष्टस्थापितैर्मागङ्गुिलैगुण्यः स्वस्थित्यर्धघटीभिर्भाज्यः । फलमिष्टाङ्गुलानि भवन्ति । तानीष्टाङ्गुलानि स्वमार्गे दत्त्वा। कथमिति चेत् । इष्टवशात् । यदि स्पशदिग्रत इष्टं कल्पितं तदा स्पर्शशराग्रादग्रत इष्टाङ्गुलानि देयानि । यदि मध्यात् पूर्वत इष्टं तदा मध्यशराग्नात् पूर्वतो देयानि ॥ एवं मुक्तिमार्गेऽपीष्टवशादिष्टाङ्गुलाग्रे प्राहकबिम्बार्ध वृत्त विलिख्येटग्रासो ज्ञेयः । एवं वा स्थूल: सुखार्थ परिलेखः ।
अत्रोपपत्तिस्त्रैराशिकेन । यदि स्थित्यर्धघटीभिर्मार्गाङ्गुलानि लभ्यन्ते तदेष्टघटीभिः किमिति ॥ फलमिष्टाङ्गुलानि ॥ तदग्रे प्राहकबिम्बमध्यमित्यर्थः । तत्र ग्राहकार्धेन वृत्ते कृत इष्टग्रासो भवतीति कि चित्रम् । ३२३-३४।।
इदानी ग्रासात् कालानयर्न परिलेखेर्नेवाह -
ग्रासोनमानैक्यदलेन केन्द्रे वृतात् कृतान्मार्गदले बहियें। |