इदानी सूर्यग्रहणाधिकारो व्याख्यायते -
तत्रादौ तदारम्भप्रयोजनमाह- *
दर्शान्तकालेऽपि समौ रवीन्दू द्रष्टा नती येन विभिन्नकक्षी |
वा० भा०-अमावास्यान्तकाले समकलावपि चन्द्राकों नती खाधदन्यत्र यतस्ततोऽपि वा स्थितौ भूम्यधेनोच्छुितो द्रष्टैकसूत्रे न पश्यति । येन कारणेन तौ विभिन्नकक्षौ । चन्द्रस्य कक्षा लघ्वी । अर्कस्य महती । यथा चन्द्रग्रहणे यैव चन्द्रस्य कक्षा सैव भूभाया अपि ॥ तत्र तिथ्यन्ते समौ भूभेन्दू नतावपि क्वधर्मोच्छ्रुितोऽपि द्रष्टैकसूत्रे पश्यति तथार्कग्रहणेऽर्केन्दू न पश्यति भिन्नकक्षत्वात् ॥ तेन कारणेन तल्लम्बनाख्यमन्तरं नत्याख्यं च वच्मि ॥ १ ॥
वा० वा०-अथ सूर्यग्रहणे लम्बनं नतिश्व वदामीत्याह-दशन्तकालेऽपीति । • चन्द्रग्रहणे समकलकाले भूभा चन्द्रकक्षोत्था चन्द्रे लगतीति तया ग्रस्तं चन्द्र भूगर्भस्थो भूपृष्ठस्थश्च युगपदेव पश्यतस्तेन न तत्र लम्बनावनती । ।
सूर्यग्रहे तु स्वकक्षास्थेन चन्द्रबिम्बेन स्वकक्षास्थसूर्यमण्डलं प्रति प्रस्थितानां नायनरश्मीनां किल प्रतिबन्धः क्रियत इति सूर्यादर्शनं भवति । इदं तदावकल्पते यदा 'छाद्यछादकौ युगपदेवास्मद्दृक्सूत्रस्थौ नान्यथा । यथा सूर्यं प्रति गतमस्मत्दृक्सूत्रं यत्तत्रस्थेनैव *मेघेनास्मद्दृष्टेः सूर्यादर्शनं भवति, न निखिलार्कमण्डलास्मद्दृष्ट्यन्तरालमार्गात्पूर्वापरदक्षिणोत्तरगतमेघेन सूर्यादर्शनमिति तद्वदवगच्छ । सर्व ग्रहगणितजातं भूगर्भादेव स्वीकृतमिति समकलकालेऽमान्ते यत्र कुत्राप्यवस्थिती चन्द्राकाँ भूगर्भसूत्रस्थावेव भवतः । अपेक्षितावस्मदीयभूपूष्ठनिष्ठदृक्सूत्रस्थौ ।
तस्माद्भूगर्भभूपृष्ठसूत्रयोरन्तरममान्ते कियदिति विचार्यते। यदास्मदीयखस्वस्तिकस्थे रविचन्द्रबिम्बकेन्द्रे तदा दृग्गर्भसूत्रयोरैक्यमिति बालैरपि बुध्यते । तत्र नतेर्लम्बनस्य चाभावः । यदा च भूगर्भयाम्योत्तरक्षितिजस्थे समकलकालीनरविचन्द्रबिम्बकेन्द्रे भवतस्तदा गोले निबद्धयाम्योदक्कुजसङ्गमावधि भूगर्भान्निबद्धसूत्र भूगर्भसूत्रम् । भूगर्भाद्भूपृष्ठ भूव्यासार्द्धयोजनै उच्छितमुचितम् । तैरेव गर्भसूत्रादस्मद्दृक्सूत्रमुच्छ्रुितं स्यात् । यतोऽस्मदीयदृक्सूत्रं , भूपृष्ठक्षितिजावध्येव खमध्याद् गच्छति नाधिकम् । तत्रास्मद्दृक्सूत्रात् सूर्यो याभिः कलाभिर्नतो याभिश्च ( च ) न्द्रो नतस्तासां कलानामन्तरतुल्यं सूर्यचन्द्रयोर्याम्योत्तरमन्तरं नतिसंज्ञं परमं समकलकाल
१. शद्यछादकौ, इति ग पु० क ख पु० द्यधादकौ, इति च ।
२. मेघना इति क ख ग पु० ।