इदानीं लम्बनस्य भावाभावं धनर्णत्वं च कथयितुमिति कर्त्तव्यतामाह
दर्शान्तलग्नं प्रथमं विधाय न लम्बनं वित्रिभलग्नतुल्ये। |
वा० भा० - अत्र लम्बन ज्ञातुं दर्शान्तकाले लग्न विधाय तत् त्रिभोनं कार्यम् । तेन त्रिभोनेन लग्नेन समे रवौ लम्बनं नास्ति । तद्भुनेऽभ्यधिके च स्यादिति वेदितव्यम् । तिथ्यन्तघटिकासु योज्यमित्यर्थः । यदधिके तदृणं तिथ्यन्तघटिकाभ्यः शोध्यमित्यर्थः ।
अथ लम्बनस्योपपत्तिस्तावदुच्यते । इह किल सममण्डलयाम्योत्तरकोणवृत्तानामर्धच्छेदेन परिकरवद्यद्वृत्तं निबध्यते तत् क्षितिजम् । तत्रस्थं ग्रहं भूगर्भस्थो द्रष्टा पश्यति । भूपृष्ठगस्तु भूच्छन्र्न तत् क्षितिजमपि न पश्यति । किन्तु भूम्यर्धयोजनैस्तस्मात् क्षितिजादुपरि समन्तादन्यत् क्षितिजं स मन्यते । यतस्तस्मादूर्ध्वं स पश्यति । तदधः क्षितिजं दृक्सूत्राल्लम्बितं न पश्यति । अतो ग्रहकक्षायाँ दृङमण्डले तेषा योजनाना सम्बन्धिन्यो या लिसास्ता एव परमलम्बनलिसा: परमावनतिलिसाश्च । तास्तु ग्रहभुक्तिपञ्चदशांशतुल्या भवन्ति । यतो गतियोजनानां पञ्चदशांशो भूव्यासार्धम्। तदा किल क्षितिजस्थस्तदा कुच्छन्नलिसाभिनैतत्वं गतः । अथ यदा खमध्यस्थो रविस्तदा तं भूगर्भस्थो द्रष्टा भूपुष्ठस्थोऽपि खमध्यस्थमेव पश्यति । न कुतोऽपि नतमतस्तत्र लम्बनाभावः । " क्षितिजे तु कुच्छन्नलिसतुल्यं परमं लम्बनम् ॥ अतो ज्ञातं खाधन्निते ग्रहे लम्बनमुत्पद्यते । एवं चन्द्रस्यापि । दर्शान्ते चन्द्रलम्बनलिसाभ्योऽर्कलम्बनलिसासु शुद्धासु शेषं ४८ ॥ ४६ रविदृक्सूत्रादधश्चन्द्रस्य परमा । लम्बनलिसाः ॥ अथ यदा दृङ्मण्डलाकार क्रान्तिवृत्तं भवति तदा परमलम्बनलिप्तानां घटीकरणायानुपातः । यदि गत्यन्तरकलाभिर्घटीषष्टिर्लभ्यते तदा गत्यन्तरपञ्चदशांशतुल्याभिः किमिति । पलं घटिकाचतुष्टयं परमं लम्बनम् ॥ अतो घटिकाचतुष्टयानुपातेन लम्बनं साधयितुं युज्यते परं यदि दृङ्मण्डलाकारं क्रान्तिवृत्तम् । यदा तदपि तिरश्चीनं तदानुपातद्वयेन । लम्बनं हि दृङ्मण्डलसूत्रेणोपपद्यते तच्च मध्यमं लम्बनम् । तत् क्रान्तिवृत्तप्राचीपरिणतं कोटिरूपं स्फुटं भवति । यदा वृङ्मण्डलमेव क्रान्तिवृत्तं तदा तदेव स्फुटम् । यतः क्रान्तिवृत्तप्राच्यपरया लम्बनस्य स्फुटत्वम् ॥ अतः क्रान्तिवृत्तस्य परमनीचस्थाने लम्बनस्य परमत्वम् । परमोच्चस्थाने लम्बनाभावः । तच्च तस्य परमोच्चत्वं वित्रिभलग्ने भवति । यदा वित्रिभ खमध्ये भवति तदा तच्छङ्कुस्त्रिज्यातुल्यः स्यात्। तदा मध्यमेव स्फुट लम्बनम्। यदा तद्वित्रिभ खमध्यान्नत भवति तदा तच्छङ्कुस्त्रिज्थातो न्यूनो भवति तदा मध्यमलम्बनात् स्फुट लम्बन कोटिरूपकरणेन तदल्पतां याति। अतो वित्रिभलग्नशङ्कीरपचयवशेन लम्बनस्यापचयः । अतो वित्रिभलग्नशङ्कना मध्यमलम्बनस्य स्फुटत्व करणेऽनुपातः कर्तुं युज्यते ॥ २ ॥
इदानीममुमेवार्थ सम्प्रधार्यानुपातद्वयेन लम्बनमाह -
ऱूब्ब्ःऑणाळाग्ग्णां तरर्णि प्रकल्प्य तल्लग्नयोर्यः समयोऽन्तरेऽसौ ।