त्रिभोनलग्नस्य भवेद्द्यु यातः शङ्काद्यतस्तस्य चरान्त्यकाद्यः' ॥३॥ |
वा० भा०-दशन्तिकाले लग्न विधाय तदनष्ट वित्रिभ च कृत्वा तयोवित्रिभस्य भोग्य भुक्तमन्तरोदययुतं वित्रिभस्योदितः कालो भवति । तेन कालेन वित्रिभलग्नजनितकुञ्ज्याद्युज्यन्त्यादिभिश्च त्रिप्रश्नोक्त्या शङ्कुः साध्यः । शङ्कोश्च दृग् ज्या तच्छायाकणंश्च साध्यः । अथ त्रिभोनलग्नार्कयोरन्तरस्य ज्या साध्या । अथ तया लम्बनार्थमनुपातः । यदि त्रिज्यातुल्यया वित्रिभलग्नाकान्तरज्यया चतस्रो घटिका लम्बनं तदानयाभीष्टया किमिति फल मध्यमलम्बनम्। अतस्तत्स्फुटीकरणार्थ' द्वितीयोऽनुपातः ॥ यदि त्रिज्यातुल्यवित्रिभलग्नशङ्कावेतावल्लम्बनं लभ्यते तदास्मिन्ननन्तरानीते किमित्येव लम्बन स्फुट भवति। ३-४ ।
इदानीं प्रकारान्तरेण स्फुटीकरणमाह
फलाद्रवि १२ ध्नात् त्रिभहीनलग्नकर्णन लब्ध खलु लम्बनं वा।
वा० भा०--फलाद्रविघ्नादिति । मध्यलम्बनादृद्वादशगुणाद्वित्रिभलग्नसंभूतच्छायाकणेंन भक्ताद्यल्लब्धं तद्वा स्फुटं लम्बनं भवति । अत्रोपपत्तिस्त्रैराशिकेन । तत्र वित्रिभलग्नशङ्कोद्वादशाशेन वित्रिभलग्नशङ्कुस्त्रिज्या चापवर्तिता जाता गुणकस्थाने द्वादश १२ हरस्थाने वित्रिभलग्नकर्ण इत्युपपन्नम् ॥ ४३ ॥
इदानी प्रकारान्तरेण लम्बनमाह--
त्रिभोनलग्नस्य रवेश्व शङ्कोर्वा दृग्ज्ययोर्वर्गवियोगमूलम् ।।५।। |
वा० भा०--त्रिभोनलग्नस्य यः शङ्कः साधितस्तथा दशन्तिकाले रवेः स्वोपकरणैर्यः शङ्कुरुत्पद्यते तावनष्टौ स्थापयित्वा तयोश्च दृग्ज्ये साध्ये ॥ अथ तयोः शङ्कोर्यद्वर्गान्तरपदं तद्वृङ्नतिसंज्ञं भवति । प्रथमप्रकारोऽयम् ॥
दृङ्नतेद्वितीयः प्रकारः । तयोर्दृग्ज्ययोर्वर्गान्तरपदं दृङ्नतिसंज्ञं भवति । अथ दृङ्नतेर्लम्बनमुच्यते । दृङ्नतिश्चतुर्गुणा त्रिज्यया भक्ता फलं लम्बननाडिकाः स्युः ।
अत्रोपपत्तिः-सैव यदा वित्रिभलग्नं खमध्ये भवति तदा दृङ्मण्डलमेव क्रान्तिवृतम् । त्रिभोनलग्नाकयोर्यान्तरज्या सैव तदाकस्य दृग्ज्या । सा चतुगुणा त्रिज्ययासा मध्यमं किल
१. अत्र बापूदेवः
अक्षज्यावित्रिभक्रान्तिज्यके त्रिज्यकयाहते । |