पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/308

एतत् पृष्ठम् अपरिष्कृतम् अस्ति



२६३
सूर्यग्रहणाधिकारः

 अत्रोपपत्तिः-अत्र निष्पन्नाया वृङ्नतेः कोटिरूपाया घटीचतुष्टयेन त्रिज्यया चानुपातः । स तदुपकरणभूतयोः शङ्क्वोस्तद्दृग्ज्ययोर्वा क्रियालाघवार्थं यदि क्रियते तदा घटिकात्मिकैव वृङ्नतिरुत्पद्यते ॥ तदेव लम्बनम् ॥ अतस्तथा कृते जातमन्यत् प्रकार द्वयम् ॥ ६-६३ ।।

इदानी लम्बनप्रयोजनमाह

तत्संस्कृतः पर्वविराम एवं स्फुटोऽसकृत् स ग्रहमध्यकालः ॥ ७ ।।

 वा० भा०- एवं यद्दर्शान्तकाले लम्बनमुत्पन्न तद्वित्रिभलग्नादूनेऽकें धनमतो दर्शान्तघटिकासु क्षेप्यम् । यदि वित्रिभादधिकेऽर्के जातं तदृणं दशन्तिघटीभ्यः शोध्यम् । एवमसकृल्लम्बनसंस्कृताद्दर्शान्तकालाल्लग्नमानीय वित्रिभं च कृत्वोक्तप्रकारेण लम्बर्न साध्यम् । तेन गणितागतो दशन्तः पुनः संस्कार्यः । एवं मुहुर्यावदविशेषः । एवं संस्कृतो दशन्तिो ग्रहणमध्यकालो भवति ।

 अथ्रोपपतिः-अत्र चन्द्रकक्षाया आसन्नत्वाद्रविकक्षाया दूरत्वात् क्वधोंच्छ्तिाद्द्रष्ट्र रविमण्डलगामि यत् सूत्रं तस्मादधश्चन्द्रोऽवलम्बितो दृश्यते तल्लम्बनम् ।। क्रान्तिवृत्ते परमोच्चस्थाने किल वित्रिभम् ॥ तस्मादूनो यदा रविस्तदाकदवलम्बितश्चन्द्रः पृष्ठतो भवति । चन्द्रो हि शीघ्रगतिः । शीघ्र पृष्ठगते युतिरेष्या। अतो लम्बन तिथौ धनम्। यदा वित्रिभलग्नादधिकोऽर्कस्तदा चन्द्रोऽवलम्बितोऽकदिग्रतो भवति । शीघ्रेऽग्रगे युतिर्याता लम्बनतुल्येन कालेनातस्तत्र लम्बनमृणम् । एवं लम्बनसंस्कृतो दशन्तिो ग्रहणमध्यकालः स्यादित्युपपन्नम् । यदि त्रिज्यातुल्याकदृग्ज्यया परमा भुक्तच्यन्तरपञ्चदशांशतुल्या लम्बनलिप्ता ४८ ।। ४६ लभ्यन्ते तदेष्टयार्कदृग्ज्यया किमिति । फलं दृग्लम्बनकलाः । एवमनेनैवानुपातेन दृक्क्षेपाद्या लम्बनलिप्ता उत्पद्यन्ते ता अवनतिलिप्ताः । ता भुजरूपाः । दृग्लम्बनकलाः कर्णः । तयोर्वर्गान्तरपदं स्फुटलम्बनलिप्ताः । यतो दृङ्नत्यानयनेऽकदृग्ज्या कर्णो दृक्क्षेपो भुजः । अतो दृक्क्षेपाज्जनितावनतिर्भुजः । स्फुटलम्बनलिप्ताः कोटिः । इदमखिलं गोले लम्बनोपपत्तौ कथितम् । तद्यथा

यत: क्वघोच्छुितो द्रष्टा चन्द्र पश्यति लम्बितम् ।
साध्यते कुदरेनातो लम्बनं च नतिस्तथा।
इष्टापवतितां पृथ्वीं कक्षे च शशिसूर्ययोः ॥
भितौ विलिस्य तन्मध्ये तिर्यग्रेखां तथोध्र्वगाम्।
तिर्यग्रेखायुतौ कल्प्य कक्षाय क्षितिज तथा।
ऊध्वरेखायुतौ खार्ध दूग्ज्याचीपांशकेनतौ ।
कृत्वाकेंन्दू समुत्पति लम्बनस्य प्रदर्शयेत्।
एकं भूमध्यतः सूत्रं नयेच्चण्डांशुमण्डलम् ॥
द्रष्टुभूपृष्ठगादन्याद्दृष्टिसूत्र तदुच्यते ।
कक्षायाँ सूत्रयोर्मध्ये यास्ता लम्बनलिप्तिकाः ।।