तदाभीष्टेऽस्मिन् किमिति । अत भुक्त्यन्तरपञ्चदशांशो गुणस्त्रिज्या हरः । गुणकहरौ गुणकार्धेनापर्वातितौ । जातं गुणकस्थाने द्वयं २ हरस्थाने क्विन्द्राः १४१ ।॥ एवं बृहज्ज्यकाभिः । लघुज्यकाभिस्तु गुणकस्थाने द्वयं २ हरस्थाने किञ्चिन्न्यूनाः पञ्च ४॥५५॥। ते सुखार्थं पञ्च कृताः ५ ॥ अतस्तत् फलं स्वषष्टयंशयुतं कृतम् ॥११३-१२ ॥
इदानी स्थूले लम्बनावनती सुखार्थमाह—
त्रिभोनलग्नस्य दिनार्धजाते नतोन्नतज्ये यदि वा सुखार्थम् ।।१३।।
दृक्क्षेपशङ्कू परिकल्प्य साध्य स्वल्पान्तरं लम्बनर्क नतिश्च ।
वा० भा०-त्रिभीनलग्नं चन्द्र प्रकल्प्य तस्य क्रान्तिः ' शरश्च साध्यः । तेन शरेण क्रान्तिः संस्कार्या । सा तस्य स्फुटा क्रान्तिः । पलावलम्बावपमेन संस्कृतावित्यादिना नतांशा उन्नतांशाच कार्याः । तज्ज्ये वित्रिभलग्नस्य दिनार्धजाते नतोन्नतज्ये यथाह श्रीब्रह्मगुस:-
वित्रिभलग्नापक्रमविक्षेपाक्षांशायुतिवियुतेः ।
इत्यादि । अत्रोन्नतज्याँ वित्रिभलग्नशङ्क नतज्यां चन्द्रदृक्क्षेपं च परिकल्प्योक्तवल्लम्बर्न स्वल्पान्तरमवनतिश्च सुखार्थ साध्या ।
अत्रोपपत्तिः -वित्रिभलग्नशङ्कोरासन्न एव दिनार्धशङ्कुस्तद्द्रुग्ज्यासन्नो दृक्क्षेप इति भावः । शेषोपपत्तिः कथितैव ॥ १२३-१३ ॥
इदानीं नतेः प्रयोजनमाह--
स्पष्टोऽत्र बाणो नतिसंस्कृतोऽस्मात् प्राग्वत् प्रसाध्ये स्थितिमर्दखण्डे ॥१४॥
वा० भा०-अत्र सूर्यग्रहणे यः पूर्ववच्छर आगच्छति । असौ नत्या संस्कृतः सन् स्फुटी भवति । अत्रैतदुक्त भवति । गणितागतो दर्शान्तकालो लम्बनेनासकृत् स्फुटीकृतः स किल ग्रहमध्यकाल: । तत्र तात्कालिक सपात चन्द्र कृत्वा विक्षेपः साध्यः । अथ स्थिरलम्बनकाले यद्वित्रिभलग्नं तस्मादवनतिः साध्या ॥ तया स विक्षेपः संस्कृतः । स मध्यग्रहणविक्षेपः स्फुटो भवतीत्यवगन्तव्यम् । ततो मानार्धयोगान्तरयोः कृतिभ्यामित्यादिना स्थितिमर्दखण्डे साध्ये ।
अत्रोपपत्तिः-चन्द्रस्थाने क्रान्तिमण्डलयोरन्तरालं विक्षेपः । चन्द्रो विमण्डले रविः क्रान्तिमण्डलेऽतस्तयोर्विक्षेपो याम्योत्तरमन्तरम् । परं यदि भूगर्भस्थो द्रष्टा । यदा तु क्वधेनोच्छ्रुितो भूपृष्ठस्थस्तदा रविकक्षामण्डलाच्चन्द्रकक्षामण्डलमधो दृक्क्षेपवशाल्लम्बितं भवति । तद्याम्योत्तरभावेन यावता लम्बितं तावती नतिस्तदग्राच्छरोऽतस्तया शरे संस्कृते स्फुटमकॅन्द्वोरन्तरं भवति । स एव स्फुटशरः । यथोत्त' गोले -
याम्योत्तरं शरस्तावदन्तरं शशिसूर्ययोः ॥ |