दशन्ते गणितागते धनमृणं वा तद्विधायासकृज्ज्ञेयौ- |
वा० भा०-प्रथम यो गणितागतस्तिथ्यन्तस्तस्मात् स्थितिदलेनोनाधिकाल्लम्बन साध्यम् । स्पर्शे स्थितिदलेनोनान्मोक्षेऽधिकादित्यर्थः । अत्र किल स्पर्शकालः साध्यते । तत्र गणितागततिथ्यन्तातू स्थित्यधनात् प्राग्वल्लम्बनमानीय तदनष्टं स्थापयित्वा तद्गणितागते तिथ्यन्ते स्थितिदलेनोने धनमृणं वा कार्यम् । स स्थूलः स्पर्शकालः । तन्मध्यकालयोरन्तरं स्थूलं स्थित्यर्धम् ॥ तज्जनितफलोनात् समकलेन्दोः शरस्तत्कालवित्रिभजनितया नत्या संस्कृतस्तस्मात् स्फुटविक्षेपात् पुनः स्थित्यर्धम् । तेन स्थित्यर्धेन गणितागते दशन्ति उने तल्लम्बनं धनमृणं वा कार्यम् । एवं कृते सति यावान् कालस्तावान् स्पर्शकालः । एवमसकृदिति । स्पर्शमध्यग्रहकालयोरन्तरं स्पाशिको स्थित्यर्ध क्षेयम् । स्पर्शकालात् पुनर्लम्बनमानीयानष्ट स्थाप्यम् ।
अथ स्पाशिकस्थित्यर्धघटीफलेन चन्द्रमूनीकृत्य' शरः साध्यः । अनन्तरानीतवित्रिभलग्नान्नतिश्च । तया स्फुटीकृताच्छरात् पुनः स्थित्यर्धम् । तेनोनिते गणितागते दर्शान्ते तल्लम्बर्न धनमृणं वा कार्यम् । एवं स्फुटः स्पर्शकालः ॥। असकृदिति यावदविशेषः ।
( मौक्षिकार्थ मध्यग्रहकालोत्थस्थितिः समकलोत्थतिथ्यन्ते योज्या । तत्रासकृल्लम्बनान्तरशरभवस्थित्या गणितागततिथ्यन्तो युतः सा मोक्षस्थितिरस्पष्टा । तल्लम्बनान्तशरोत्थस्थित्या वारं वारं पूर्वदशन्तिो योज्यः । एवं स्थिरलम्बनान्तशरोत्थस्थितिर्मोक्षस्थितिज्ञेया ॥ सैव मौक्षिकम् )* ।
एवं स्थितिदलेनाढघाद्गणितागत न्मोक्षकालोऽपि । तत्र चन्द्रपाततात्कालिकीकरणे फल धनम्। एवं मोक्षमध्यग्रहकालयोरन्तरं मौक्षिक स्थित्यर्धम्। एवं मददलेनोनाद्गणितागतातू संमीलनकाल: । मर्ददलेन युक्तादुन्मीलनकाल: । संमीलनमध्यग्रहकालयोरन्तरं प्रथमं स्फुटं मर्दार्धम् । उन्मीलनमध्यग्रहकालयोरन्तरं द्वितीयम् । यद्यसकृद्विधिना लम्बर्न क्रियते तदैवम् । यदा पुनः सकृद्विधिना लम्बनं तदा स्पर्शकालो मोक्षकालोऽपि सकृदेव स्फुटो भवति। किन्तु तत्रायं विशेषः । स्पर्शकाले मोक्षकाले वा पुनर्वित्रिभलग्न कृत्वा तस्मान्नति: साध्या । तया तत्कालभवो विक्षेपः संस्कृतः सन् स्फुटः स्पाशिकः । मौक्षिको वा स्फुटो भवति । न चेदेव तदा स्थूलः ।
१. अत्र श्रीम० देवः-- चन्द्रमूनीकृत्येत्यत्र मध्यग्रहकालिक चन्द्रमूनीकृत्येति ज्ञेयम्।
२. अत्र बापूदेव:- मौक्षिकार्थमितिप्रभृति मौक्षिकमित्यन्तं केनचित् प्रक्षिसमिति प्रतिभाति ॥