पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/316

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७१
सूर्यग्रहणाधिकारः

 अत्रोपपत्तिः-स्थित्यधनयने पूर्वोक्तैव । तत्स्फुटीकरणे प्रोच्यते ॥ गणितागतो हि दर्शान्तकालो मध्यग्रहकालो भवितुमहँति । चन्द्रार्कयोस्तत्र तुल्यत्वात् । स्थित्यर्थेनोनो दशन्तिकालः स्पर्शकालो भवति । युतो मोक्षकालः ।

 अथ च द्रष्टुः क्वधच्छ्रुितत्वाल्लम्बनमुत्पन्नम् ॥ अतस्तेन संस्कृतो दशन्तिो मध्यग्रहकालः स्फुटो भवति । एवं स्पर्शकालोऽपि तत्कालजनितलम्बनेन संस्कृतः स्फुटो भवितुमर्हति । या युक्तिर्मध्यग्रहणकालस्य लम्बनसंस्कारे सैव स्पर्शमोक्षसंमीलनोन्मीलनकालानाम्। किन्तु स्पर्शकालस्य लम्बनसंस्कारे क्रियमाणे कालान्यत्वाच्छर: किचिदन्यथा भवति। नतिश्व किचिदन्यादृशी। तत्संस्कृतिभवं स्थित्यर्धमपि किञ्चिदन्यादृशम् । अतस्तेनोने गणितागते दशान्ते तल्लम्बनं धनमृणं वा कतु युज्यते। अत उत्त 'तत्कालोत्थनतीषुसंस्कृतिभवस्थित्यर्धहीनाधिक इत्यादि। यद्यसकृ। द्विधिना लम्बनं तदा पुनः पुनर्लम्बनं नतिश्च । तया तत्कालशरः स्फुटः स्थित्यर्धार्थं किल क्रियते । तदा स्थित्यर्धं स्फुटं भवति । तदा तत्कालशरोऽपि स्फुटो भवति । स एव स्पाशकः शर इति वेदितव्यम् । यदा पुनः सकृद्विधिना लम्बनं तदा पुनः पुनः शरस्य नतेश्चाकरणात् स्पाशिकः शरः पुनः कर्तुं युज्यते । अत उत्ततं ‘कित्वत्र बाणावनती पुनश्च तात्कालिकाभ्यां विधुवित्रिभाभ्यामिति । १५-१७ ।

 वा० वा०-स्पर्शमोक्षकालज्ञानमाह-तिथ्यन्तादिति। स्पष्टा स्पर्शस्थिति: कियती कियती च मोक्षस्थितिरित्याह—तन्मध्यकालान्तरयोरिति । इयं स्पष्टस्थितिः सूर्यसिद्धान्तोत्तस्पष्टस्थित्यर्द्धतुल्यैव भवति । सा यथा--प्रथमं तु तिथ्यन्तोऽसकृत्सा-- धितलम्बनसंस्कृतो जातो मध्यकालः। एतन्मध्यकालोत्थनतीषु संस्कृतिभवं स्थित्यर्द्ध मध्यमस्थित्यर्द्धसंज्ञम् । अनेन मध्यमस्थित्यद्धेनोनयुतो गणितागततिथ्यन्तः स्पर्शमोक्षकालावस्पष्टी भवतः । अस्पष्टस्पर्शमोक्षकालसाधितलम्बने भवतः । अस्पष्टस्पर्शमोक्षकालसाधितनतीषु संस्कृतिभवस्थित्यद्धे स्पर्शमोक्षस्थित्यर्द्धसंज्ञके कृते। यदा प्राक्कपाल एव स्पर्शमध्यमोक्षास्तदा मध्यलम्बनात्स्पर्शलम्बनमधिकं भवति मोक्षं लम्बनं हीनं 'यदि मध्यलम्बनाद् भवति । तत्राचार्यमते । मध्यलम्बनोनो गणितागततिथ्यन्तो मध्यकालः स्यात् ।

 बीज क्रियया लिख्यते । म० ल० ग० तिo १ ॥ अयं मध्यकाल: ॥ स्पर्शकालः । स्पर्शांस्थित्यद्धनो गणितागततिथ्यन्तः स्पर्शलम्बनेनोनः स्पर्शकालः स्यात्। स्प० ल० १ स्प० स्थि० १ ग० ति० १ अयं स्पर्शकाल: । एवं जातयो: स्पर्शमध्यकालयोः ‘संशोध्यमानं स्वमृणत्वमेति स्वत्वं क्षयः' इत्यनेन मध्यकालात् स्पर्शकाले शोधिते जातं स्थित्यर्द्ध स्पाशिकम्। एवं मोक्षकालः मो० ल० मी० स्थि० १ ग० ति० १ अस्मान्मोक्षकालान्मध्यकाल शोधिते जातं मौक्षिकस्थित्यर्द्धम्। अपरकपाले लम्बनं धनम्। तत्र स्पर्शलम्बनं मध्यलम्बनाद्धीनं मोक्षलम्बनमधिकमिति पूर्वकपालादत्र विपर्यय: ।


१. इदं क ख पु० नास्ति।