स्थित्यद्धीँनान्वितात्प्राग्वत् तिथ्यन्ताल्लम्बनं पुनः । |
इत्यनेन सूर्यसिद्धान्तोक्त स्पष्टस्थित्यर्द्धतुल्यैवात्र स्पष्टस्थितिर्जाता । एकादशनतघटीषु परममसकृत्प्रकारेण मध्यलम्बनं भवति। तस्मात् पूर्व पूर्वकपालेऽपि स्पर्शलम्बनं हीनं तदा स्पर्शस्थितिदले शोध्यमित्येव बीजक्रियया भवति ॥ सूर्यसिद्धान्तेऽयेतदपि प्रोक्तम् । हरिजान्तरकं शोध्यं यत्रैतस्माद् विपर्ययः कपालभेदेन स्थितयोः स्पर्शकालमध्यकालयोर्मध्यकालमोक्षकालयोर्वान्तरात् स्पष्टस्थित्यर्द्ध बीजक्रियया साध्यमानम् ।
'एतदुक्त कपालैक्ये तद्धदे लम्बनैक्यता।
स्वे स्वे स्थितिदले योज्या ।
इति सूर्यसिद्धान्तोक्त्या तुल्यमेव भवति । अत्र स्वे स्वे स्थितिदले स्पाशिके मोक्षिके इत्यर्थ: । 'मध्यस्थित्यद्धद्विलक्षणे स्पर्शमौक्षिकस्थितिदले भवतः । अन्यद्वासनाभाष्ये स्पष्टतरम् ॥ १५-१६ ॥
श्रीमत्कौङ्कणवासिकेशवसुतप्राप्तावबोधाद्बुधाद् |
इदानी विशेषमाह—
शेषं शशाङ्कग्रहणोत्तमत्र स्फुटेषुजेन स्थितिखण्डकेन ।
हतोऽथ तेनैव हृतः स्फुटेन बाहुः स्फुटः स्याद्ग्रहणेऽत्र भानोः ॥१८॥
ग्रासाच्च कालानयने फलं यत् स्फुटेन निघ्नं स्थितिखण्डकेन ।
स्फुटेषुजेनासकृदुद्धृतं तत् स्थित्यर्धशुद्धं भवतीष्टकालः ॥१९॥
१ सू० सि० ५ अ० १४ श्लो० । 'स्थित्यधर्गेनाधिकात्प्रा’ इ० मु० पु० ।
२ सू० सि० ५ अ० १५ श्लो० ।
३ सू० सि० ५ अ० १६ श्लो० ।
४ सू० सि० ५ अ० १६ श्लो० । 'यत्रतत्स्याद्दविपर्यय:' इ० मु० पु० ।
५ सू० सि० ५ अ० १७ श्लो० ।