ट्कान्तरे विमण्डलप्रतिमण्डलयोरन्यं संपातं कृत्वा पातात् पूर्वतस्त्रिभेऽन्तरे पठितविक्षपप्रमाणेन प्रतिमण्डलादुत्तरतो विमण्डल केनचिदाधारेण स्थिरं कृत्वा मेषादेरनुलोम मन्दस्फुर्ट ग्रहं प्रतिमण्डले विमण्डले च दत्वा विक्षपोपपत दर्शयेत् । तत्र तयोग्रॅहयोर्यावान् विप्रकर्षस्तावांस्तत्र प्रदेशे विक्षपः |
अथ तस्यानयनम् । पातस्थाने हि - विक्षपाभावः । ततस्त्रिभेऽन्तरे परमो विक्षपः । अन्तरेऽनुपातेन । अतः पातग्रहचिह्नयोरन्तरं तावज्ज्ञेयम् । तच्च तयोर्योगे कृते भवति । यतो मेषादेरनुलोमं ग्रहो दत्तः । पातस्तु प्रतिलोमम् । अतस्तयोर्योगः शरार्थ किल केन्द्रम्। तस्य दोज्य साध्या । यदि त्रिज्यातुल्यया दोज्र्यया पठितविक्षपतुल्य प्रतिमण्डलविमण्डलयोरन्तरं लभ्यते तदाभीष्टया ग्रहस्थानभवया दोज्यया किमिति । फलं शीघ्रकर्णाग्रे विक्षेपः । अथ द्वितीयोऽनुपातः । यदि शीघ्रकर्णाग्र एतावान् विक्षेपस्तदा त्रिज्याग्रे क इति । अत्र गुणकभाजकयोस्त्रिज्यातुल्ययोस्तुल्यत्वान्नाशे कृते सति दोज्ययाः पठितविक्षेपो गुणः शीघ्रकर्णो हरः ॥ फलं कक्षाप्रदेशे विक्षेपो ज्यारूपस्तस्य चापं स्फुटविक्षेप इत्यर्थः । भूचिह्न सूत्रस्यैकमग्र बद्ध्वा द्वितीयमग्र विमण्डले ग्रहस्थाने निबद्ध सूत्र कर्णः' । सूत्रकक्षामण्डलयोरन्तरं स्फुटः शर इत्यादि सर्वं छात्राय दर्शनीयम् ॥ २ ।।
इदानी विक्षेपस्य क्रान्तिसंस्कारयोग्यतालक्षणमन्यत् स्फुटीकरणमाह-
त्रिज्यावर्गादयनवलनज्याकृर्तिं श्रोह्य मूलं |
वा० भा०-ग्रहस्य युतायनांशोडुपकोटिशिब्जिनीत्यादिनायन वलन साध्यम्। अत्र वलनशब्देन वलनज्या ग्राह्या न धनुः । तथा इतः प्रभृति बृहज्ज्याभिः कर्म कर्तव्यम् । यतो बृहज्ज्याभिः शरज्या शरकलातुल्यैव भवति । तस्यानयनम् ॥ वलनस्य वर्गं त्रिज्यावर्गादपास्य यन्मूलं लभ्यते तद्यष्टिसंज्ञं ज्ञेयम् ॥ तया यष्टया ग्रहविक्षेपी गुणितस्त्रिज्यया भक्तः स्फुटः क्रान्तिसंस्कारयोग्यो भवति । अथानुकल्प उच्यते । यद्वा राशित्रययुतखगद्युज्यकाध्न इति । राशित्रय युतस्य ग्रहस्य यावती द्युज्या तया वा गुण्यस्त्रिज्यया भक्तः स्फुटो भवति । अत्र भाजकस्येकत्वाद्गुणकस्यान्यत्वात् फलं स्वल्पान्तरमित्यतोऽनुकल्पेनोत्तम् ।
१. अत्र बापूदेवोक्तो विशेषः-
द्राक्केन्द्रकोटिज्यकया- विनिघ्नी त्रिभज्ययासा शरकोटिजीवा |