पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/322

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७७
ग्रहच्छायाधिकारः


 अत्रोपपत्तिः-क्रान्त्यग्रात् किल शरो भवति । शराग्रे ग्रहः ।। क्रान्तिः शरेण संस्कृता स्फुटा भवति । अत्र गणितागतेनैव शरेण क्रान्तिः स्फुटा क्रियते तदयुक्तम् । यतः क्रान्तिविषुवन्भण्डलात् तिर्यग्ध्रुवाभिमुखी । विक्षेपस्तु क्रान्तिमण्डलात् तिर्यपूपः कदम्बाभिमुखः । यथोक्ततं गले

सर्वतः क्रान्तिसूत्राणां ध्रुवे योगो भवेद्यतः ॥
विषुवन्मण्डलप्राच्या ध्रुवे याम्या तथोत्तरा ।
सर्वतः क्षेपसूत्राणा ध्रुवाज्जिनलवान्तरे ।
योगः कदम्बसंज्ञोऽयं ज्ञेयो वलनबोधकृत् ॥
तत्रापमण्डलप्राच्या याम्या सौम्या च दिकं सदा ॥

कदम्बभ्रमवृत्तं चेति ।

 अतो विक्षेपः कदम्बाभिमुखो भवति । ध्रुवाभिमुख्या क्रान्त्या सह कर्थ तस्य भिन्नदिक्कस्य योगवियोगावुचितौ । तयोर्यद्भिन्नदिक्त्वं तदायनवलनवशात् ॥

 अथ तद्गोलोपरि प्रदश्र्यते । यथोदितं गोलं विरचय्य क्रान्तिवृत्ते यद्ग्रहचिह्नं तस्मात् परितो नवतिभागान्तरेऽन्यत् त्रिज्यावृत्तं निवेश्यम् ॥

 अथ ग्रहचिह्नाद्ध्रुवोपरिगामिसूत्रं तस्मिन् वृत्ते यत्र लगति तत्कदम्बयोरन्तरमायनं वलनमतस्तस्य ज्या भुजः । ग्रहचिह्नकदम्बयोरन्तरस्य ज्या त्रिज्या स कणंः । तयोर्वर्गान्तरपदं कोटिः । सा च यष्टिसंज्ञा । क्रान्त्यग्राद्विक्षेपः कदम्बाभिमुखः कर्णरूपः । तस्य कोटिरूपकरणायानुपातः । यदि त्रिज्याकणें यष्टि: कोटिस्तदा शरकणें का। फल क्रान्तिसंस्कारयोग्यो विक्षेपो भवति । तेन संस्कृता क्रान्तिः स्फुटा । विक्षेपाग्रस्थस्य ग्रहस्य विषुवन्मण्डलस्य च यद्याम्योत्तरमन्तरं सा स्फुटा क्रान्तिरुच्यते । अथानुकल्पेऽपीयमेव वासना । अत्र सत्रिराशिग्रहक्रान्तिज्या भुजस्थाने कल्पिता स भुजः । तद्द्युज्या यष्टिस्थाने कल्पिता सा कोटिः । तत्रापि त्रिज्या कणं इति सर्वमुपपन्नम् ॥ ३ ।।

 वा० वा०-अथ ग्रहच्छायाधिकारो व्याख्यायते । ननु। शङ्क्वादिवस्तुना लोकस्य कियत्यपि प्रदेशेऽवरुद्धे' लब्धात्मक तमः छाया शब्देनोच्यत इति प्रागभिःहितम् । यदि पृथिव्यां सोरालोकवद्ग्रहालोकः सर्वत्र स्यात्तदा शङ्क्वादिना क्वचित्तदवरोधो भवेत् । अत्र ग्रहालोकप्रचारो दिवसे वा रात्री वा भवति । नाद्यः प्रबलसौरालोकेन दुर्बलग्रहालोकविषयापहारबाधाच्चन्द्रालोकवद्ग्रहालोकप्रचारादर्शत्वात्* । न द्वितीय: । दृश्यचन्द्ररात्रिभागे चन्द्रबिम्बप्रतिफलितकतिपयार्कोकरणवशजनितचन्द्रालोकेन प्रबलेन ग्रहालोकप्रचारबाधात् । अदृश्यचन्द्ररात्रिभागेऽपि ग्रहालोकप्रचारदर्शनाभावाच्च । दूरस्थत्वाद्भूमण्डले भग्रहाणां नालोकप्रचारो दृश्यते दृश्यमानातिदूरस्थदीपालोकप्रचारादर्शनवत् । अतः एव स्फुरदंशुजालशुक्रालोकप्रचार: कंदाचिद्धवत्येव । तस्माद् ग्रहच्छायासाधनाधिकारो नारम्भणीय इति चेत्तत्राग्रे वक्ष्यते


१. वतुद्ध इति ग पु० । २. प्रचारादर्शनादिति ग पु० ।