तज्ज्या स्पष्टोऽपमगुण इतो द्युज्यकाद्य ग्रहस्य । |
इति शङ्ककोटिहंग्ज्या भुजस्त्रिज्या कर्ण इति क्षेत्र प्रत्यक्ष दृश्यते । अत भुजकौष्टिकर्णाः शेंडूद्वादशांशेनापर्वांतताः प्रभा द्वादश छायाकर्णा गणितेन भवन्त्येव । छायासाधितभुजकोटिविन्यासविशेषेण नलिकासुषिरगतग्रहदर्शनं स्वच्छायास्थितिसिद्धानुमापकमिति ग्रहदर्शने ग्रहच्छायापि भवत्येव । न ह्यनुपलब्ध्या छायाभावो युक्त इति वाच्यम् । अस्तङ्गतग्रहादर्शने ग्रहाभावापत्तेः । दिवसे भग्रहानुपलम्भात् तदभावः प्रसज्येत । तस्माद् भूमण्डलाद्दूरतरप्रदेशावस्थितत्वेन ग्रहच्छायानुपलम्भेऽपि साऽस्त्येव । तस्याः साधनप्रयोजनं नलकसुषिरे दर्शनमिति स्पष्टमभिहितम् । तत्र स्पष्टक्रान्तिसाधनार्थं वृत्तद्वयेन शरसाधनमुक्तम् । ततो वृत्तेन कोटिरूपशरसाधनमुक्तं भाष्ये स्पष्टम् ॥ १-३ ॥
इदानीमायनं दृक्कर्माह*
अयनं वलनमस्फुटेषुणा संगुणं द्युगुणभाजितं हतम् । |
वा० भा०-ग्रहस्य यदायन वलन तदस्फुटशरेण संगुण्य तद्द्युज्यया भजेत् । फलमष्टादशशतैः १८०० संगुण्य यस्मिन् राशौ ग्रहो वतंते तस्य निरक्षोदयासुभिविभजेत् । फलमायनकला भवन्ति। अथ वायनवलनकला अस्फुटेन शरेण संगुष्य यटया विभजेत् । फलमायनकलाः स्वल्पान्तरा भवन्तीत्यनुकल्पः । ग्रहो यस्मिन्नयने वर्तते तस्यायनस्य ग्रहशरस्य च यडोका दिक् तदा ता अायनाः कला ग्रहे ऋणं कार्याः । यदि तयोभिन्ना दिक् तदा धनं कार्याः । एवं कृतायनदृक्कर्मको ग्रहो भवति ।
अत्रोपपतिगले सविस्तराभिहिता। अथेहापि किंचिदुच्यते। क्रान्तिवृत्ते यद्ग्रहस्थानचिह्न तद्यदा क्षितिजे लगति न तदा ग्रहः । यतोऽसौ शराग्रे । शराग्र हि कदम्बाभिमुखम्। यदोत्तरकदम्बः क्षितिजादुपरि भवति तदा तदुन्मुखेन शरेण ग्रहः क्षितिजादुन्नाम्यते । क्षितिजकदम्बयोरन्तरं तदेवोत्तरमायनं वलनम् । यदा क्षितिजादधः कदम्बस्तदा शरेण ग्रहो नाम्यते क्षितिजकदम्बयोरन्तरं तदा दक्षिणं वलनम् । अतो वलनवशेन ग्रहस्योन्नामनं नामनं च ॥ उन्नामितो ग्रह अादावेवोदितः । नामितः पश्चादुदेष्यति । स च कियता कालेनेति तदानयनं त्रैराशिकेन । यदि त्रिज्यातुल्ये कणें कदम्बक्षितिजयोरन्तरकला वलनसंज्ञा लभ्यन्ते तदा अस्फुट
१. सि० হি০ সাে০ ग्रहच्छा० १३ इली० । २. दृशते इति ग पु० ।