शरतुल्ये किमिति ॥ फलं ग्रहादघोऽवलम्बरूपाः कला भवन्ति । ग्रहस्थाने यद्द्युज्यावृत्तं तत्र ता जीवारूपाः । तासां त्रिज्यावृत्तपरिणामायान्योऽनुपातः । यदि द्युज्यावृत्त एतावती ज्या तदा त्रिज्यावृत्ते कियतीत्येवं याः फलकलास्ता एवासवः ॥ फलस्य धनुः स्वल्पत्वान्नोत्पद्यत इति न कृतम् । तैः क्रान्तिवृत्ते परिणामायान्योऽनुपातः । यदि निरक्षोदयासुभी राशिकला अष्टादशशतानि लभ्यन्ते तदैभिरसुभिः किमिति । फलं क्रान्तिवृत्तपरिणताः कला भवन्ति । यदोत्तरं किल वलनमुत्तरश्च विक्षेपस्तदा तेन विक्षेपेणोन्नामितो ग्रहो यावत् क्षितिज नीयते तावत् क्रान्तिवृत्तग्रहस्थानात् पृष्ठतः क्रान्तिवृत्तं क्षितिजे लगति तदेव स्थानं कृतदृक्कर्मको ग्रहः । किं बहुना । गोले क्रान्तिमण्डले यथास्थार्न विमण्डलं विन्यस्य तत्र ग्रहं च दत्त्वा चिह्न कार्यम् ।
अथ ध्रुवाद्ग्रहोपरि नीयमानं वृत्ताकारं सूत्रं यत्र क्रान्तिवृत्ते लगति तत्र कृतदृक्कर्मको ग्रहः ॥ एवं ध्रुवान्नीयमानेन सूत्रेण शरकृतं त्र्यस्त्रं भवति । क्रान्तिवृत्तग्रहस्थानादग्रतः पृष्ठतो वा अायनकलातुल्येऽन्तरे तत् सूत्रं क्रान्तिवृत्ते लगति । अत आायनकला भुजः । अस्फुटविक्षेपः कोटिः । शराग्रक्रान्तिवृत्तयोरन्तरे यावत् सूत्रखण्डं स तत्र कर्णः । एतत् त्र्यस्त्रं वलनत्र्यस्रसंभवम् । अतस्त्रैराशिकेनायनकलानामानयनम् । यदि यष्टिकोटचा वलनकलाभुजो लभ्यते तदा अस्फुटविक्षेपकोटचा किमिति। फलमायनकला इति सर्वमुपपन्नम्। ४-५ ।
वा० वा०-वृत्तद्वयेनायनदृक्कर्मसाधन भाष्ये स्पष्टम् ॥ ४-५ ।
इदानीमक्षजं दृक्कर्माह - -
स्फुटास्फुटक्रान्तिजयोश्चरार्धयोः समान्यदिक्त्वेऽन्तरयोगजासवः । |
म्योतरे क्रमविलोमविधानलग्न |
वा० भा०-ग्रहस्य स्फुटक्रान्तेरस्फुटक्रान्तेश्वरार्धे साध्ये । यदि स्फुटस्फुटक्रान्ती तुल्यदिक्के तदा चरार्धयोरन्तरं कार्यम् । यदि भिन्नदिक्के तदा योगः । एवं येऽसवो भवेयुस्ते पलोद्भवा ज्ञेयाः । ग्रहस्य भस्य वा यदा महांश्छरस्तदैवम् ॥ यदाल्पस्तवान्यथा पलोद्भवासवः साध्याः ॥ ग्रहस्य स्पष्टः शरोऽक्षवलनेन गुण्यो लम्बज्यया भाज्यः ॥ अथवा विषुवत्या गुणितो द्वावशभिर्भाज्यः । यल्लब्धं तत् त्रिज्यया गुण्यं द्युज्यया भाज्यं फलं पलोद्भवा' असवो भवन्तीत्यनुकल्पः ॥ -
अथ कृतायनवृक्कर्मक ग्रहं रवि प्रकल्प्य तैः पलोद्भवासुभिर्लग्नं साध्यम् । यदि ग्रहस्य याम्यः शरस्तदा क्रमविलग्नम् ॥ यदि सौम्यस्तदा विलोमलग्नम् ॥ एवं कृते सति ग्रहस्योदयलग्नं