वृषभादिस्तु मध्यमक्रान्त्युत्पन्नचरकालेन क्षितिजे उदेति । तस्मात् स्वक्षितिजे यदा वृषाद्युदयस्ततः शरतुल्यक्रान्त्युत्पन्नचरकालेन ग्रहः पूर्वं पश्चाद्वा क्षितिजे लगति तदेवाक्षं दृक्कर्म । स्पष्टशरस्तु स्फुटास्फुटक्रान्त्योः समान्यदिक्त्वेऽन्तरयोगाद् भवतीति स्पष्टम् । याम्यशरो' याम्यध्रुवाभिमुखः । याम्यध्रुवादुपरि क्षितिजमिति क्रमलग्नं कृतम् । उत्तरशरे विलोमलग्नं कृतम् । क्षितिजस्थे ग्रहे दृक्कर्माक्षमिदम् । याम्योत्तरवृत्तस्थे ग्रहे आक्षदृक्कर्मसंस्कारोऽनुचित इति । नतघटीभिरनुपातादन्तरे आक्ष दृक्कमोचितमिति सौरे तथा कृतम् । आचार्यस्याप्येवमेव वस्फुमुचितम् । अन्यत्सर्व भाष्ये स्पष्टम्। अयमधिकाधिकारस्त्रिप्रश्नाधिकार एवान्तर्भवति। अत एव सौरे पृथङ्नोक्तः । यतो ग्रहगणितस्य दशैवाधिकाराः दशभेदं ग्रहगणितमित्यनेन । यथा सौरे छेद्यकाधिकारो ग्रहणाधिकारान्तगतोऽपि भिन्न उक्तस्तथैवाचार्येणाप्ययं भिन्न उक्त इति न कोऽपि दोषः ॥ ६-८ ।।
श्रीमत्कौङ्कणवासिकेशवसुतप्राप्तावबोधाद्बुधाद् |
- इति नृसिहकृतौ छायाधिकारः ॥
इदानीमुदयास्तलग्नयोः स्वरूपं प्रयोजन चाह
निजनिजोदयलग्नसमुद्गमे समुदयोऽपि भवेद्धनभः सदाम् । |
वा० भा० - स्पष्टार्थम् । ९ ।
इदानी ग्रहस्य दृश्यत्वलक्षणमाह
निशीष्टलग्नादुदयास्तलग्ने न्यूनाधिके यस्य खगः स दृश्यः । । |
-
वा० भा० - दिनकरेऽस्त गते यदिष्टकाले लग्न तदिष्टलग्नम्। तस्माद्ग्रहस्योदयाख्य* लग्नं न्यूनमस्ताख्यं चाधिकं यदि भवति तदा ग्रहो दृश्यः । इतोऽन्यथा चेददृश्यः । एवं लक्षणे । सति चन्द्रो दिवसेऽपि दृश्यः । यदि ग्रहो दृश्यस्तदा ग्रहस्य छाया साध्या । -
अत्रोपपत्तिः स्पष्टाथ ॥ १० ।।
इदानी छायार्थ ग्रहस्य द्युगतमाह
ज्ञातुं यदा भाभिमता ग्रहस्य तत्कालखेटोदयलग्नलग्ने। |
१. शशे इति क ख पु० ।
- सि०-३६