पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/328

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८३
उदयास्ताधिकारः

 वा० भा०-एवं त्रिप्रश्नोक्त्या प्रहस्य शङ्क' दृग्ज्यां च साधयेत् ॥ ततः शङ्कोः स्फुटत्वं कार्यम् ॥ प्रहस्य भुक्तिपञ्चदशांशेन वजितः शङ्कः स्फुटो भवति । अस्फुटशङ्कोर्या जाता वृग्ज्या सा द्वादशगुणा स्फुटशाडूना भक्का छाया भवति । छायावर्गाद्द्वादशवर्गीयुतान्मूलं কিন্তীঃ । बृहज्ज्याभिर्यदा शङ्कः कृतस्तदैवम् । यदा लघुज्याभिर्लघुः शङ्कः कृतस्तदा भुक्तेः खाग्निवेदांशेन ४३० वर्जितः स्फुटो भवति । यदा महाञ्छङ्कः भुक्तिपञ्चदशांशात् स्वल्पो लघुः शङ्कर्वा भुक्त: खानिकृतांशात् स्पल्पस्तावद्विधुरदृश्यो ज्ञेयः।

 अत्रोपपत्तिः-अत्र यः शङ्करसौ दृङ्मण्डल उन्नतभागाना जीवा तस्य शङ्कीमूलादुपरि भुक्तिपञ्चदशांशतुल्याः कला भुवा छन्ना भूपृष्ठस्थो द्रष्टा न पश्यति । ता भूच्छन्नलिप्साः पूर्व प्रतिपादिता एव । तथा च गोले

कुपृष्ठगानां कुदलेन हीन दृङ्मण्डलार्ध खचरस्य दृश्यम्।
कुच्छन्नलिप्तानुरतो विशोध्याः स्वभुक्तितिथ्यंशमिताः प्रभार्थम् ॥

 यदि वसुगुणकृताग्नि ३४३८ तुल्ये व्यासार्धे भुक्तः पञ्चदशांशः कुच्छन्नलिप्सा लभ्यन्ते तदा खार्क १२० मिते किमिति । एवमनुपातेन खाग्निकृतशोि लघुशङ्कपक्ष कुच्छन्नलिसा: । एताभ्यो लिप्साभ्यः शङ्कावूने चन्द्रस्त्वदृश्यः । एवं किल सर्वे ग्रहा अदृश्या भवन्ति । किं विधोनिर्धारण तदाद्याचार्याभिप्रायेण । तै: स्वल्पान्तरत्वादन्येषां ग्रहाणां नोत्तम् ॥ १४-१५ ॥

 इदानों तेषां दूषण निराकुवन्नाह

स्वल्पान्तरत्वादबहूपयोगात् प्रसिद्धभावाञ्च बहुप्रयासात् ।
ग्रन्थस्य तज्ज्ञैर्गुरुताभयेन यस्त्यज्यतेऽर्थो न स दूषणाय ॥१६॥

 इति श्रीभास्कराचार्यविरचिते सिद्धान्तशिरोमणिवासनाभाष्ये मिताक्षरे ग्रहच्छायाधिकारः । अयमध्यायस्त्रिप्रश्नस्याङ्गमतो नाधिकारेष्वस्य पृथग्गणना । ग्रन्थसंख्या नवत्यधिको शतम् १९० ।


अथ ग्रहोदयास्ताधिकारः

 अथ प्रहोदयास्तमयाध्यायो व्याख्ययते । तत्रादौ नित्योदयास्तयोर्गतगम्यलक्षणमाह

प्राग्दृग्ग्रहः स्यादुदयाख्यलग्नमस्ताख्यकं पश्चिमदृग्ग्रहः सः ।
प्राग्दृग्ग्रहोऽल्पोऽत्र यदीष्टलग्नाद्गतो गमिष्यत्युदयं बहुश्चेत् ॥१॥
ऊनोऽधिकः पश्चिमदृग्ग्रहश्चेदस्तं गतो यास्यति चेति वेद्यम् ।

 वा० भा०-यस्मिन् दिने यस्मिन् काले यस्य प्रहस्योदयोऽप्तो वा ज्ञातव्यस्तस्मिन् दिने तात्कालिकं स्फुटं ग्रहं कृत्वा तस्योदयास्तलग्ने साध्ये ॥ अथ तत्काले यदिष्टलग्नं तच्च साध्यम् ।