'प्राग्दृग्ग्रहः स्यादुदयाख्यलग्नमित्यारभ्य 'निरुक्ती ग्रहस्येति' नित्योदयास्तावुक्ती इनासन्नभावेनेति । दिवाकरकराभिभूतभूपृष्ठनिष्ठदृष्टः सूर्यासन्नग्रहाग्रहेणास्तमनं नाम । अदर्शनानन्तरभाविग्रहदर्शनमुदयशब्देनोच्यते । न चास्तमयो नाम ग्रहाभाव इति वाच्यम् । अस्तमयोदयकालजनितस्पष्टान्तरतुल्य एवास्तमनकालीनस्पष्टराश्यादेरुदयकालीनस्पष्टग्रहोपलम्भात् ।
न च 'दिवाकरकराक्रान्तमूर्तीनामल्पतेजसाम्र इत्यनेन २"उदक्स्थत्वान्नलुप्यन्तेऽर्करश्मिभिः' इत्यनेन च ‘*भवन्ति लोके खचराभानुभाग्रस्तमूर्त्तय:४’ इत्यनेन च सौरवाक्यत्रयेण ग्रहाभिभवो ग्रहास्तमय इति वाच्यम् । अयुक्तत्वात् । परमास्तकाले जलादौ शुक्रबिम्बदर्शनान् मेरुस्थानामस्तमनादर्शनाच्च ।
'भावाभावाय लोकानां कल्पनेयं प्रदशिता । |
दिवाकरकराक्रान्तदृष्टिदिवाकरकराक्रान्तमूर्तित्वं ग्रहाणां मन्यते शह्वपीतत्वभ्रमवत्। तदभिप्रायेण दिवाकरकराक्रान्तमूर्तीनामस्तमयज्ञानमुच्यते । एतानि भानि °'न लुप्यन्तेऽर्करश्मभिः' इत्यत्र सूर्यकिरणैरदृश्यानि न भवन्तीत्यर्थः । ग्रहादर्शनं लोपः । प्रोक्तकालांशेभ्यो न्यूनैरिष्टकालांशैरदर्शनाः खचराः सन्तः लोके मनुष्यलोके भानुभाग्रस्तमूर्तयो भवन्तीत्यर्थ: । ग्रहादर्शनेन लोको भानु। भाग्रस्तमूर्तीन् मन्यत इति भावः । अन्यद्भाष्ये स्पष्टम् ॥ १-४।।
श्रीमत्कौङ्कणवासिकेशवसुतप्राप्तावबोधाद्बुधाद्— भट्टाचार्यसुताद्दिवाकर इति ख्याताज्जनि प्राप्तवान् । |
इदानों बुधशुक्रयोविशेषमाह-
ज्ञशुक्रावृजू प्रत्यगुद्गम्य वक्रां गर्तिं प्राप्य तत्रैव यातः प्रतिष्ठाम् । |
वा० भा०-बुधशुक्रौ तु यदा ऋजू तदाधिकभुक्तित्वात् प्रतीच्यामुद्गच्छतः । ततस्तत्रैव वक्रतां प्राप्यास्तं गच्छतः । ततस्तयैव वक्रतया प्राच्यामुद्गम्य ततोऽवक्रतां प्राप्याधिकभुक्तित्वात् प्राच्यामेवास्तं व्रजेताम् ।
अत्रापि सैव वासना ॥ किञ्च यत् प्राच्यां दिश्युद्गमनं प्रतीच्यामस्तमयस्तद्वक्रतावैपरीत्यम्। ५ ।
१. ग्रहाग्रहणमस्तमनमिति ग पु० ॥ २. सू० सि० ९ अ० १ श्लो० ।
३. सू० सि० ९ अ० १८ श्लो० । ४. सू० सि० ९ अ० ९ श्लो० ॥
५. सू० सि० ७ अ० २४ श्लो० तथा ‘मन्योन्यमाश्रितः' इति मु पु० ।।
६. अल्मनमि क ख पु० । ७. सू० सि ९ अ० १८ श्लो० ।