सिद्धान्तशिरोमणी ग्रहगणिते कालांशानां योगे कृते सत्यन्तर कृतं भवति। तथा उक्तेभ्य ऊनाभ्यधिका यदीष्टा इति यदगतगम्यलक्षणमुक्त तत् सजातीयानामेव । यदा पुनरेके पृष्ठगता एकेऽग्रगतास्तदा तद्गतगम्यलक्षणं व्यत्ययेन भवति । अत उत्त' व्यत्ययश्च गतैष्यत्व इत्यादि । अत्र सुधियेति विशेषणाद्बुद्धिमतेदमनुत्तमपि ज्ञायत इत्यर्थः ।। ११-१२ ।
इति श्रीभास्कराचार्यविरचिते सिद्धान्तशिरोमणिवासनाभाष्ये भिताक्षरे ग्रहोदयास्ताधिकार:
समासः । अस्मिन्नधिकारे ग्रन्थसंख्या शतम् १०० ।
अथ शृङ्गोन्नत्यधिकारः
इदानी श्रृङ्गोन्नतिव्र्याख्यायते । तत्रादौ चन्द्रशङ्क्वर्थमाह— |
वा० भा०-मासान्तपाद इति कृष्णाष्टम्या उपरि प्रथमेऽथवा शुक्लाष्टम्याः प्रागेव यस्मिन्नभीष्टदिने शशिशृङ्गोन्नतिज्ञातुममीष्टा तस्मिन् दिने मासान्तपाद औदयिको चन्द्रार्को स्पष्टी कार्यों। प्रथमचरणे त्वस्तकालिकी। ततः श्रृंङ्गोन्नतिज्ञेया । निशि वा । एतदुक्तं भवति। मासान्तपाद उदयकाले शशिशृङ्गोन्नतिः साध्या । प्रथमचरणे त्वस्तकाले । अथवा किमुदयास्तनियमेन । यत्रोदये तत्रोदयात् प्रागिष्ट घटीतुल्यकाले वा यत्रास्ते तत्रास्तादुपरीष्टासु घटीषु वा श्रृङ्गोन्नतिः साध्या । तत्र तात्कालिको चन्द्रार्को कृत्वा चन्द्रस्य स्फुटक्रान्त्युदयास्तलग्नोन्नतघटिकादिभिस्तदुपकरणैः शङ्कः साध्यः ॥
अत्रोपपत्तिः - चन्द्रस्यार्धादूने शुक्ले तत्कोटी शृङ्गाकारे भवतः ।। तत्रेष्टकाले कतरशृङ्गोन्नतिर्भविष्यतीति ज्ञातव्यम् ॥ तत्र शुक्लस्य शृङ्गाकारतार्धादूने शुक्ले ॥ तच्चार्धादूनत्वं मासान्तपादे प्रथमे च सम्भवति । द्वितीयतृतीययोरपि चरणयोर्ब्रह्मगुसादिभिः कृष्णशृङ्गोन्नतिरानीता सा मम न सम्मता । नहि नरैः कृष्णशृङ्गोन्नतिः स्पष्टोपलभ्यते । प्रसिद्धा तु शुक्लशृङ्गोन्नतिः ॥ अत उक्तं मासान्तपादे प्रथमेऽथवेति ।। १ ।
अथार्कशङ्यवर्थं शङ्कतलार्थं चाह - |
वा० भा०--शृङ्गोन्नतिकाले विघोः किल शङ्कः साधितः ॥ अथ रवेः साध्यः । तत्र यद्युदयेऽस्तमये वा तदा रवेः शङ्कुः पूर्ण सिद्ध एव । यदा तूदयात् प्रगस्तानन्तरं तदा क्षितिजादधःस्थस्य रवेः कथं शङ्कः साध्यस्तदर्थमाह ॥ निशावशेषैरसुभिरित्यादि । उदयात् प्राग्यावतीभिर्घटिकाभि श्रृङ्गोन्नतिस्तावत्यो निशावशेषाः । अस्तादनन्तरं याभिर्घटीभिस्ता रात्रिगताः । तासामसुभी रवि गोलविपर्ययस्थं प्रकल्प्याथोन्नतादूनयुतादित्यादिना यः शङ्कुः साध्यतेऽसौ रवेरधःशङ्कुर्भवति ।