पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/337

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९२
सिद्धान्तशिरोमणौ ग्रहगणिते

शुक्लपक्षे चन्द्रो युक्तः सन् कृष्णे रहितः सन् शुक्लसाधनयोग्यो भवति । तच्च धनुः परमं भागचतुष्टय सपाद भवति। अवान्तरे तदनुसारेण । ६ ।

 वा० वा०-अथ श्रृंङ्गोन्नतिज्ञानम् । भुजकोटिकर्णज्ञानमाह-मासान्तपाद इत्यादि ।

'यद् याम्योदक्तपनशशिनोरन्तरं सोऽत्र बाहुः
कोटिस्तूर्ध्वाधरमपि तयोर्यच्च तिर्यक् स कर्णः ।
दोर्मूलेऽर्कः शशिदिशि भुजोऽग्राच्च कोटिस्तदग्रे
चन्द्रः कर्णो रविदिगनया दीयते तेन शुक्लम् ॥
इति गोले वासना प्रतिपादिता भाष्ये च स्पष्टा ।
सितसाधनयोग्यं चन्द्रमाह-‘चन्द्रस्य योजनमयश्रवणेनेति' ।
'कक्षाचतुथें तरणेहिं चन्द्रकर्णान्तरे तिर्यगिनो यतोऽब्जात् ।
पादोनषट्काटलवान्तरेऽतो दल नृदृश्यस्य दलस्य शुक्लम् ॥

 इति वासना गोले भाष्ये चोक्ता । गोले पूर्वस्वस्तिके रविर्मषे कल्प्य चन्द्रोऽपि स्वगोले याम्योत्तरवृत्तमकरसम्पाते कल्प्यः । तत्र रविगोले रविकक्षाव्यासार्द्ध रवियोजनकर्णश्चन्द्रगोले चन्द्रयोजनकर्णः ।। तत्र याम्योत्तरवृत्तस्थमकराव स्थितगोलकाकारं चन्द्रबिम्बं निवेश्यम् । तस्मान्नीयमानं सूत्रं प्राग्रविगोले यत्र लगति यत्र च प्रत्यग्लगति तत्र बिन्दू कार्यौ । ततो बिन्दुद्वये रविबिम्बं गोलाकारं निवेश्यम् । तस्मिन् निवेशितेऽस्मद्दृश्यार्द्धभागस्य चन्द्रस्याद्धं शुक्लं भवति न पूर्वस्वस्तिकस्थेऽकौबिम्ब इति प्रतीतिरुत्पाद्या । तत्रस्थार्कस्य चन्द्रेण पादोनषट्काष्टलवतुल्यमन्तरं भवति। यतो रविकक्षायां चन्द्रकणतुल्ययोजनानामंशा: सपादाश्चत्वारो रविकर्ण त्रिज्यामिताः कलास्तदाचन्द्रकर्णतुल्ययोजनानां कियन्त्य इत्यनुपातेन भवन्ति । त्रिज्यातुल्यव्यकॅन्दुदोज्यायामिदमन्तरं परमं तदेष्टायां किमिति ज्यारूपम् । तस्य धनुरिष्टकाले भवति । शुक्लपक्षे रविः पृष्ठे चन्द्रोऽग्रे तस्याः कलाश्चन्द्रे योज्याः । कृष्णेऽन्यथेति सम्यगुक्तम् ।

ॐसूर्योनशीतगोलिप्ताः शुक्लं नवशतोद्धृताः ।
कृष्णे षड्भयुतं सूर्यं विशोध्येन्दोस्तथा सितम् ॥
इति सौरे शुक्ल साधितम् । परिलेखा: सौरे"
दत्त्वार्कसंज्ञितं बिन्दुं ततो बाहु’ स्वदिङ्मुखम् ।
ततः पश्चान्मुखीं कोटि कर्णं कोटच्यग्रमध्यगम् ।


१. सि० शि० गो० श्रृंङ्गो० ५ श्लो० ॥
२. सि० शि० गो० श्रृंङ्गो० ३ श्लो० । ३. सू० सि० १० अ० ९ श्लो० ॥
४. सू० सि० १० अ० १५ श्लो० ।। ५ सु० सि० १० अ० १०-१३ श्लो०॥