'कोटिकर्णयुताद् बिन्दोबिम्बं तात्कालिक लिखेत्। |
शुक्लसाधनार्थं कृतवृत्तस्य व्यासार्द्धं स्वभा । अत्र सितसाधनवृत्तकेन्द्रस्य चन्द्रकेन्द्रस्य चान्तरं कर्णसूत्रापरपर्यायचलनसूत्रे विभेति । अत्र चन्द्रबिम्बव्यासार्द्ध षडेव घृतं सुखार्थम् । शुक्लाग्रस्य चन्द्रबिम्बे कृतयाम्योत्तरसूत्रस्वभावसूत्रसम्पातस्यान्तरं विभास्वभान्तरं तदेव कोटिकणन्तरम् ।
स्वभोत्थवृत्तषडङ्गलव्यासार्द्धचन्द्रबिम्बयोर्यत्र सम्पातस्तस्मात् स्वभोत्थवृत्त केन्द्रपर्यन्तमन्तरं स्वभार्कर्णः । सम्पाताच्चन्द्रबिम्बकेन्द्रं यावद्षडङ्गलो भुजः । *सितसाधनवृत्तचन्द्रबिम्बकेन्द्रयोरन्तरं विभाकोटिरिति क्षेत्रं दृश्यते ।
तत्र पौर्णमास्यां यत्रैव चन्द्रबिम्बकेन्द्रं तत्रैव शुक्लाग्रमिति विभाया अभावातू षडङ्गुलतुल्यैव स्वभा भवति तावत्परमं कोटिकर्णान्तरम् ।। · दर्शेऽपि यत्रैव । चन्द्रबिम्बकेन्द्रं " तत्रैवासितमिति । विभाया अभावात्कोटिकर्णान्तरं षडङ्गुलतुल्यम् । दर्शे पौर्णमास्यां च व्यर्केन्दुकोटच्यंशाः परमा अतोऽनुपातः नवत्यंशैः षडङ्गलतुल्यं कोटिकर्णान्तरं तदेष्टैः किमिति कोटिकर्णान्तरं साधितम् । ततो-
भुजाद्वर्गितात्कोटिकर्णान्तराप्तं द्विधा कोटिकर्णान्तरेणोनयुक्तम्। |
इति यौ कोटिकर्णौ साधितौ तावयुक्तौ व्यभिचारात् । यत्र देशे षट्षष्टिभागाः पलांशास्तत्र मेषादौ क्षितिजे सर्वेऽपि राशयः क्षितिजस्था भवन्ति । तदानीं क्रान्तिवृत्तस्य क्षितिजानुकारित्वेन वृषभ्रान्तस्थसूर्ये मेषान्तस्थचन्द्रस्योत्तरभागे द्वयङ्गुलं शुक्लमूर्ध्वरूपं च शृङ्गं भवति रवीन्द्वोः क्षितिजस्थत्वेन कोटेरभावात् । इदं ब्रह्मगुप्तमतेनायाति । दर्शदिवसादन्यत्रापि कोटेरभावो दशित इति ।
१. कोटिकर्णयुतेरिन्दो: क ख ग पु०। २. सितसाधनवृत्तचन्द्रयो, इति ग पु० ॥
३. ली० क्षे० ११ श्लो० ।। ४. ब्राह्मस्फुट सि० ७ अ० ६ श्लो० ।