पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/339

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९४
सिद्धान्तशिरोमणी ग्रहगणिते

यत्सिद्धान्तशिरोमणौ समुदितं कोटेरभावो भवे-
च्छुङ्गोध्र्वाधरतेति दर्शदिवसे चन्द्रार्कयोगे कुजे ।
तस्मिन् दर्शनमेव नास्ति शशिनः शृङ्गोन्नतत्वं कथं
यत्रोध्वधिरता कुजोपरि विधौ कोटेरभावस्ततो||

 यदिति ज्ञानराजोत तनिराकृतमेव। शुक्लपक्षप्रतिपदन्ते साध्यमानं चन्द्रदर्शनं सूर्यास्तसमय एव दृक्कर्मवशेन कदाचिदायात्येव । तत्र चन्द्रार्कयोः क्षितिजस्थत्वेन कोटेरभावाच्छुङ्गोध्वधिरता सम्भवत्येव । नहि वासनावगम्योऽर्थश्चाक्षुर्ष दर्शनमपेक्षते स्वयाथार्थयय अस्तङ्गतग्रहचलनमिव । अन्यभ्दाष्ये ।१-६|

श्रीमत्कौडुणव्रासिकेशवसुतप्राप्सावबोधृाद्बुधाद्भ-
भट्टाचायंसुताद्दिवाकर इति ख्याताज्जनिम् प्राप्तवान्|
य: कृष्णस्तनयेन तस्य रचिते सद्वासनावातिके ।
सत्सिद्धान्तशिरोमणेरधिकृति श्रृङ्गोन्नतिज्ञापिका ।
इति नृसिंहकृतौ श्रृङ्गोन्नत्यधिकारः ।

 अथ परिलेखसूत्रमाह‌-
व्यकेंन्दुकोट्यंशशरेन्दु १५ भागो हारोऽमुना षट्कृिति ३६ तो यदाप्तम्।
द्विष्ठं च हारोनयुतं तदर्धे स्यातां क्रमादत्र विभास्वभाख्ये ॥७॥

 वा० भा०-परिलेखसूत्रस्वरूप तावदुच्यते । व्यकेंन्दुभुजभागाः पञ्चदश १५ भत्ता: शुक्लाङ्गलानि भवन्ति' । चन्द्र भूमौ विलिख्य तत्र यथोक्त वलर्न दत्त्वा वलनसूत्र घोच्छाद्य शुक्लपक्षे पश्राद्धागाद्वलनसूत्रण शुक्ल दत्वा तदग्रे चिह्न कार्यम्। तथा वलनसूत्रात् तिर्यग्रेखां च कृत्वा तद्वृत्तसंपातयोश्वान्यचिह्मद्वयं कार्यम् । तच्चिह्मत्रयं यथा स्पृशति तथा यद्वृत्तमुत्पद्यते तत् परिलेखवृत्तम् । तद्येन व्यासार्धेनोत्पद्यते तत् परिलेखसूत्रमुच्यते । परिलेखवृत्तस्य मध्यं हि वलनसूत्र एव भवति । वलनरेखायां च तत्र बिन्दुः कार्यः ॥ तस्माब्दिन्दोस्तच्चिह्नगामिनी रेखा कार्या स कर्णः । चन्द्रवृतमध्यात् तच्चिह्मगामिनी तिर्यग्रेखा भुजः । चन्द्रमध्यपरिलेखवृतमध्यबिन्द्रोरन्तरं कोटिः । चन्द्रमध्यशुक्लचिह्नयोरन्तरम् कोटिकर्णान्तरम् । भुजाद्वर्गितात् कोटिकर्णान्तरासमित्यादि । एवं कोटिकणाँ साधितौ ॥ तौ चैवम् ॥ व्यर्केन्दुभुजभागाः पञ्चदशहृताः शुक्लाङ्गलानि किल भवन्ति । कोटिभागेभ्य एवं शुक्लोनितं चन्द्रबिम्बार्ध भवति । तदेव कोटिकर्णान्तरम्। चन्द्रव्यासार्धमङ्गलषट्कं भुजः ॥ भुजो वगितो जाता षट्कृतिः ३६ ॥ इयं कोटिकर्णान्तरेण भाज्या। अत उत्त व्यर्केन्दुकोटचशशरेन्दुभागो हारोऽमुना षट्कृतितो यदासमसौ कोटिकर्णयोगः । द्विष्ट च हारोनयुतमिति संक्रमगणितेन जाती कोटिकणों । तत्र कोटेविभासंज्ञा कृता कर्णस्य स्वभासंज्ञा । कर्ण एव परिलेखसूत्रमित्युपपन्नम् ।।७।।


१. अत्र लल्ल:-
रविशीतकरान्तरांश जीवा विपरीता शशिखण्डताडिता च ।
विहृता त्रिभजीवया सितं स्याच्छशलक्ष्माङ्गवदङ्गुलानि तस्मिन् ||
         शि० धी० चं० शु० १२ श्लो० ।