दृश्यं कृष्णम् ॥ अथ भार्धान्तरितस्य परिवर्त्तनेन पौर्णमास्यामूध्र्वमर्धं कृष्णमधस्तनं शुक्लम् । एवं पादोनषट्काष्टलवान्तरितस्य रवेस्तिर्यक्स्थितत्वादूध्र्वाधोदलयोर्दले सितासिते भवतः । एवमर्केन्द्वोर्दीक्षिणोत्तरवलनाद्दिग्वलनम् ॥ तज्ज्ञानाय भुजकोटिसाधनम् । तदुपपत्तिर्गोलेऽप्यभिहिता ।
यद्याम्योदक् तपनशशिनोरन्तरं सोऽत्र बाहुः |
रवीन्द्वोर्दक्षिणोत्तरमन्तरं भुजः ।। रवेर्यतः शशी सा तस्य दिक् ॥ यदूर्ध्वाधरमन्तरं सा कोटिः । यत् तिर्यक् स कर्णः । चन्द्रबिम्बार्धमङगुलषट्कं कर्णं परिकल्प्य तत्परिणतस्य भुजस्य वलनसंज्ञा कृता ॥ मासस्य प्रथमचरणे किल शृङ्गोन्नतिः । वलनं च याम्यमङ्गुलत्रितयम् ३ । तत्र पूर्वभागाभिमुखे चन्द्रश्रृङ्गे भवतः । अतश्चन्द्रमध्यात् पूर्वाभिमुखी विभा देया । यतस्तदग्रात् खण्डितस्य चण्डीशचूडामणेस्तथाविधे शृङगे भवतः । अतः प्राग्भागतो वलर्न दक्षिर्ण दत्तम् । मासान्तपादे तु पश्चिमभागाभिमुखे श्रृङ्गे भवतः । अतस्तत्र पश्चिमभागाद्वलनं देयम् । अत उत्त' 'मासस्य तुर्यंचरणे वरुणेशदेशादिति । ततश्वन्द्रकेन्द्राद्वलनाग्रानुगते सूत्रे या विभा बत्ता सा पूर्वप्रतिपादितत्र्यस्रकोटिः । स्वभा तु कर्ण: । अतस्तया विभाग्राद्वृत्ते कृते चन्द्रशुक्लखण्डस्य सम्यगाकृतिज्ञयिते। यस्यां दिशि चन्द्राद्रविर्भवति तद्दिक श्रृंड्गमुन्नत 'भवति ॥ यत् पूर्वं वलनमानीतं तच्चन्द्रदिक् । चन्द्रादकों व्यस्तदिग्भवति । अत उत्ततं' स्यात् तुङ्गशृङ्गं वलनान्यदिक्स्थमिति सर्वमुपपन्नम् ॥८-९॥
उपपत्तौ हि क्वचिदमूर्तं प्रमेयं परब्रह्मवत् तज्ज्ञानमेव स्वसंवेद्यम् । अतोऽत्र मन्दावबोधनेन स्वमत द्रढयितु परमतनिराकरणाय सुगणकानभ्यथ्य दृष्टान्तमाह-
यौ ब्रह्मगुप्तकथितौ किल कोटिकणों ताभ्यां कृते तु परिलेखविधौ यथोक्त ।
नास्तीव भाति मम दृग्गणितैक्यमत्र शृङ्गोन्नतौ सुगणकैर्निपुणं विलोक्यम् ||१०||
यत्राक्षोऽङ्गरसा ६६ लवाः क्षितिजवत् तत्रापवृत्ते स्थिते |
शुझे समे स्तो यदि बाह्वभाव ऊध्र्वाधरे ते यदि कोटयभावः।
त्रिज्यासमौ तस्य च कोटिबाहू किंवा ममानेन नमो महद्भ्यः ॥१२॥
वा० भा०-यत्र देशे षट्षष्टिः ६६ पलांशास्तत्र मेषादिर्यदा प्राक्क्षतिजस्थो भवति तदा सर्वेऽपि राशयः क्षितिजस्था भवन्ति । अपमण्डलमेव क्षितिजम् । यदा वृषभान्तस्थः किल सूर्यो मेषान्तस्थश्चन्द्रस्तदा चन्द्रस्योत्तरे भागे द्वयङ्गुलं शुक्लमूर्ध्वरूपं च शृङ्गं भवति । उत्तरस्थितत्वादकस्य । यदा मेषाम्तस्थो रविर्मेषादिस्थशचन्द्रस्तदाप्येवमेव । यदा मेषादिस्थो रविः