पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/342

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९७
ग्रहयुत्यधिकारः

कुम्भार्धस्थो विधुस्तदा त्र्यङ्गुलं शुक्लमुत्तरत ऊर्ध्वाधरमेव शृङ्गम् । एवं यदा मकरादिस्थश्चन्द्रस्तदा मेषादिस्थो रविरिति यदुक्तं तत् तिर्यक्स्थत्वोपलक्षणार्थम् । तेन मेषादेः प्राक् सपदे भागचतुष्टये यदि रविस्तस्य मकरादिस्यस्य विधोश्च पादोनषट्काट ८५ ॥ ४५ लवा अन्तरं भवति । एतदुक्तं भवति । रविकक्षायां प्राक्स्वस्तिकाद्दक्षिणतश्चन्द्रयोजनकर्णतुल्येऽन्तरे रविर्वर्तते । दिङ्मध्यचिह्नाद्दक्षिणतस्तावद्भिरेव योजनैः स्वकक्षायां चन्द्रोऽपि मकरादिस्थो वर्तते । अतो रवेः सम्यक् तिर्यक्स्थितत्वाद्धिमकरस्य मकरादिस्थस्य प्राच्यामर्धं याम्योत्तरमण्डलेन खण्डितमिव शुक्लं भवति । तत्राप्यूध्र्वरूपं श्रृङ्गमित्यर्थ:।
 ननु युक्तियुक्तमिदमुनत' प्रतीतिजनकत्वात् प्रत्यक्षमिव कयापि युक्त्या निराकर्तुं न शक्यते तत् किमर्थमिदं निरूपणमित्याशङ्कयाह--
 श्रृंड्गे समे स्तो यदि बाह्वभाव इत्यादि । अत्र बहुभिग्रन्थकारैबाहु: स एवानीत: कोटिकर्णावपि तदनुसारिणी। ब्रह्मगुसेन तु कोटिकर्णावन्यी साधितौ । परिलेखस्तु सर्वेरेक एव । तस्य परिलेखस्यायं परिणामः । 'श्रृंड्गे समे स्तो यदि बाह्वभाव इति । यतो बाहुदिशि श्रृङ्ग नमति । अतो बाहोरभावाच्छुङ्गे समे स्तः । यदा कोटेरभावस्तदोध्र्वाधरे श्रृंङ्ग। भवतः । उपरि श्रृंङ्गाग्राल्लम्बनिपातोऽध: श्रृंङ्गाग्रे भवति। अयं परिलेखपरिणामः । अथ च हिमकरे मकरादिगते त्रिज्यामितो बाहुः । ब्रह्मगुसपक्षे त्रिज्यातुल्या च कोटिः । अतः परिलेखे क्रियमाणे कर्थ श्रृङ्गयोरूध्र्वाधरत्वम् । अत्र सौरार्यभटादिशास्त्रेषु कोटेरभाव एव । हिमकरे मकरादिगत इत्युपलक्षणम् । यदापममण्डलं क्षितिजवर्ूवति तदा मासान्तपादे प्रथमे । अथवा यत्रतत्रस्थस्यापि विधोरूध्वाधरे एव श्रृंड्गे भवतः । जिष्णुजकोटिकर्णाभ्यां न क्वाप्यूध्वाधरे भवतः । अथवा कि ममानेन नमो महद्भ्यः । महतामभिप्रायं महान्त एव विदन्ति ।
  वेत्ति विश्वंभरा भारं गिरीणां’गरिमाश्रयमिति ॥१०-१२॥ इति श्रीभास्कराचार्यविरचिते सिद्धान्तशिरोमणिवासनाभाष्ये मिताक्षरे श्रृङ्गोन्नत्यधिकारः।
      अत्र ग्रन्थसंख्या १८० ।।

 

अथ ग्रहयुत्यधिकारः

अथ ग्रहयुतिव्र्याख्यायते । तत्र दी ग्रहाणां मध्यमबिम्बान्याह
व्यङ्घ्रीषवः ४॥४९ सञ्चरणा ऋतवः ६॥१९ त्रिभाग
युक्ताद्रयो ७॥२० नव ९ च सत्रिलवेषव ५॥२० श्ध ।
स्युमध्यमास्तनुकलाः क्षिातजादकाना
त्रिज्याशुकणंविवरेण पृथग्विनिध्न्यः ॥१॥

 वा० भा०-भौमस्य मध्यमं बिम्बं पादोनाः पञ्च कलाः ॥ बुधस्य सपादाः षट् । गुरोः सत्र्यंशाः सस ॥ शुक्रस्य · नव कलाः । शनेः सत्र्यंशाः पञ्च । त्रिज्याशुकर्णविवरेणेत्यग्रे सम्बन्धः ॥१॥
  सि०-३८