पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/345

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३००
सिद्धान्तशिरोमणौ ग्रहगणिते

  वा० भा०-एवं स्थूलैदिनैर्यस्मिन् दिने युतिरायाता तस्मिन् दिने पुनस्तौ मध्यमी स्फुटीच कृत्वा तयोः शरावानीयायनं दृक्कर्म च कृत्वा दिवौकसोरन्तरलिसिकौघादित्यादिना पुनर्युतिकालः साध्यः । स स्फुटो भवति । एवं कृते सति ग्रहौ युतिकाले ध्रुवसूत्रसंस्थौ भवतः । ध्रुवाद्ग्रहोपरि नीयमानं सूत्रमितरग्रहस्योपरि गच्छतीत्यर्थः । सैव तदा युतिः । अायनदृक्कर्मणा । ध्रुवसूत्रगतो ग्रहः क्रियत इत्यस्य वासना प्रागुक्तैव ॥ यद्यकृते दृक्कर्मणि युतिः साध्यते सापि भवति । तदा तौ ग्रहौ क्रान्तिवृत्तात् तिर्यक्सूत्रे । तदा कदम्बोपरि नीयमानं सूत्रं ग्रहद्वयोपरि गतं भवतीत्यर्थः । कदम्बप्रसिद्धतारयोरभावाद्द्रष्टुः प्रतीतिर्नोत्पद्यत इति ध्रुवसूत्रे युतिः _कथिता ॥ युतिर्नाम यदाकाशे द्वयोरल्पमन्तरं तत् प्रायः कदम्बसूत्रस्थयोरेव भवति ।। ३३-५ ।।

अथ दक्षिणोत्तरान्तरज्ञानार्थमाह---
एवं लब्धैग्रहयुतिदिनैथालिती तो समौ स्त-
स्ताभ्यां सूर्यग्रहणवदिषू संस्कृतौ स्वस्वनत्या ।
तौ च स्पष्टौ तदनु विशिखी पूर्ववत् संविधेयौ
दिक्साम्य या वियुतिरनयोः संयुतिर्भिन्नदिक्त्वे ॥ ६ ।।
याम्योदक्स्थद्युचरविवरं ज्ञेयमत्रषुदिक्स्थौ
खेटौ यः स्याल्लघुतरशरः सोऽन्यदिक् तुल्यदिक्त्वे ।

 वा० भा०-एवं ये स्फुटा युतिदिवसा आगतास्ते गता एष्या वा तैचालिताविति तात्कालिकौ कृतौ ग्रहौ गृहांशकलादिभिः समौ भवतः । ततस्ताभ्यां शरौ सूर्यग्रहवत् स्वस्वन्त्या संस्कृती कृत्वा ततो यष्टया द्युचरविशिखस्ताडित इत्यादिना स्फुटौ कार्यां । ततस्तयो: शरयोर्दिक्साम्येऽन्तरं भिन्नदिषत्वे योगस्तयोर्ग्रहयोर्याम्योत्तरमन्तरं भवति । तौ च ग्रहौ स्वस्वदिशि ज्ञातव्यौ । एकदिक्त्वे तु यस्याल्पः शरः सोऽन्यदिशीतरग्रहात् ।

अत्रोपपत्तिः-प्रागुक्तैव ।। ६-६: ।
इदानी भेदयोगलम्बनज्ञानार्थमाह-
मानेंक्यार्धाद्वद्युचरविवरेऽल्पे भवेद्वेदयोगः
काय' स्रुय'ग्रहवदखिलं लम्बनाद्यं स्फुटार्थम् ॥ ७ ।।
कल्प्योऽधःस्थः सुधांशुस्तदुपरिग इनो लम्बनादिप्रसिद्धयै
किंत्वकादेव लग्नं ग्रहयुतिसमयो कल्पितार्कान्न साध्यम् ।
प्राग्वत् तल्लम्बनेन ग्रहयुतिसमयः संस्कृतः प्रस्फुटः स्यात्
खेटौ तौ दृष्टियोग्यौ यदि युतिसमय कार्यमेवं तदैव ॥ ८ |
याम्योदक्स्थद्युचरविवरं भेदयोगे स बाणो
ज्ञेयःसूर्याद्भवति स यतः शीतगुः सा शराशा ।