मन्दाक्रान्तोऽनृजुरपि यदाधःस्थितः स्यात् तदैन्द्रयां |
वा० भा०-तद्याम्योतरमन्तरं ग्रहयोर्मानैक्याधाद्यदाल्प भवति तदा भेदयुतिज्ञेया । यदा भेदयुतिस्तदा सूर्यग्रहवल्लम्बनाद्यं साध्यं स्पष्टार्थम् । तत्र तयोर्ग्रहयोर्मध्ये योऽधःस्थः स सुधांशु: कल्प्य उध्वस्थो रविः । किमर्थ तथा कल्यौ । लम्बनादिसाधनाय । किन्तु यल्लग्न वित्रिभलग्नार्थं साध्यं तदकदेिव । न कल्पिताकात् । अकल्लग्नसाधने कः कालः । ग्रहयुतिसमये । एतदुक्तं भवति । यस्मिन् दिने यावतीषु रात्रिघटिकासु गतासु ग्रहयुतिरायाता ताभिर्घटीभिः सषड्भ ६ मार्क कृत्वा लग्नं साध्यम् । तद्वित्रिभं कृत्वा तस्योक्तवच्छङ्क' कृत्वा तस्य वित्रिभस्य कल्पितार्कस्य चान्तरज्या कृता ४हता व्यासदलेन भाजितेत्यादिना प्राग्वेल्लम्बनं साध्यं नतिश्च ॥। तत्र लम्बनेन ग्रहयुतिकालः संस्कार्यः ॥ एवं लम्बनादिकं तदैव कार्यं यदा तौ खेटौ दृष्टियोग्यौ ॥ तस्मिन् भेदयोगे यद्याम्योत्तरमन्तरं स बाणः ॥ कल्पिताकात् कल्पितः शशी यस्यां दिशि वर्तते सा दिक् तस्य बाणस्य ज्ञेया । तथा पारिलेख्ये कर्मणि विशेष उच्यते। योऽधःस्थो ग्रहः शशी कल्पितः स चेदल्पभुक्तिर्भवति वक्रो वा तदा प्राच्यां दिशि स्पर्शः पश्चिमायां दिशि मोक्ष इति वेदितव्यम् । इतोऽन्यथा चेत् तदा प्रतीच्यां स्पर्शः प्राङ्मोक्ष इति । अत्र भेदयोगे वासनया ये ये भेदा उत्पद्यन्ते ते तेऽत्राभिहिताः । नान्यः कश्चित् कर्मविशेषः । अतोऽत्र । वासना विमला सुगमा च ॥ ६३-९ ।
इति श्रीभास्कराचार्यविरचिते सिद्धान्तशिरोमणिवासनाभाष्ये मित्ताक्षरे
ग्रहयुत्यधिकारः समासः ॥ अत्र ग्रन्थसंख्या ८५ ।।
अथ भग्रहयुक्त्यधिकारः
अथ भग्रहयुतिव्याख्यायते ।तत्रादौ भन्ध्र वकानाह- |
वा० भा०--अ, भ. कृ. प्रो. मृ. आ. पु. पु. आ. म. पू. उ. ह. चि. Y x 以 以 、 CS) o 8 R R ३ ३ ३ ८ २o ७ १९ ३ ३ १६ १८ ९ २७ ५ २० ३ o o O o 0 cy o o Rъ *Rся o o.