अत्रोपपत्तिः-तत्र भवेधार्ध गोलबन्धोक्तविधिना विपुलं गोलयन्त्रं कार्यम् ॥ तत्र खगोलस्यान्तर्भगोल अाधारवृत्तद्वयस्योपरि विषुवद्वृत्तम् ॥ तत्र च यथोक्त' क्रान्तिवृत्तं भगणांशा ३६० ङ्कितं च कार्यम् । ततस्तद्गोलयन्त्रं सम्यग्ध्रुवाभिमुखयष्टिकं जलसमक्षितिजवलयं यथा भवति तथा स्थिरं कृत्वा रात्रौ गोलमध्यगचिहुगतया दृष्ट्या रेवतो.तारां विलोक्य क्रान्तिवृत्ते यो मीनान्तस्तं रेवतीतारायां निवेश्य मध्यगतयैव दृष्टच्याश्चिन्यादेर्नक्षत्रस्य योगतारां विलोक्य तस्योपरिवेधवलयं निवेश्यम् । एवं कृते सति वेधवलयस्य क्रान्तिवृत्तस्य च यः संपातः स मीनान्तादग्रतो यावद्भिरंशैस्तावन्तस्तस्य धिष्ण्यस्य ध्रुवांशा ज्ञेयाः ॥ अथ वेधवलये तस्यैव संपातस्य योगतारायाश्च यावन्तोऽन्तरंऽशास्तावन्तस्तस्य शरांशा उत्तर दक्षिणा वा वेदितव्या: । अथ ये ध्रुवभागाः पठितास्ते कृतदृक्कर्मका एव । ये तु शरांशाः पठितास्ते स्फुटा एव । यतो ध्रुवद्वयकीलयोः प्रोतं वेधवलयम् । तस्मिन् वेधवलये यो ज्ञातः शरः स ध्रुवाभिमुखः । योहि ध्रुवाभिमुखः शरः स स्फुटः । अस्फुटस्तु कदम्बाभिमुखः । अत एव पूर्वं भगणोत्पत्तिकथने ग्रहवेधवलयं कदम्बकीलयोः प्रोतं कर्तव्यमित्युक्तम् । अत एव कारणात् कृतदृक्कर्मका एव भध्रुवाः । यतो ध्रुवाद्ग्रहोपरि नीयमानं सूत्रं यत्र क्रान्तिवृत्ते लगति तत्र कृतायनदृषकर्मको ग्रह इति दृक्कर्मवासनायां पूर्वं कथितमेव ॥४-६॥
अथागस्त्यलुब्धकयोराह-- |
अगस्त्यस्य नाडीद्वयं प्रोक्तमिष्टं सषड्भागनाडीद्वयं लुब्धकस्य । |
सषड्भागनाडीद्वयं लुब्धकस्येति । तत्र त्रयोदशा १३ कालांशाः । त्रिभागाधिक स्थूलभानामिति ॥ यानि स्थूलानि नक्षत्राणि तेषां चतुर्दश कालांशाः । अणूनां ततश्चाधिकमिति केषांचित् पञ्चदश केषांचित् षोडशेति कल्प्यते । अत्र ग्रहाणां भानां वा ये कालांशास्ते स्थूलसूक्ष्मत्वतारतम्यपर्यालोचनया । याः स्थूलास्तारास्ता अर्कोदयादत्पेन कालेनान्त्रितादृश्या भवन्ति । याः सूक्ष्मास्ता अधिकेनेत्युपपन्नम् ।। ८ ।।
भग्रहयुतौ पूर्वकर्तव्यतामाह-- |