पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/350

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०५
भग्रहयुत्यधिकारः

 वा० भा०-स्पष्टम् ।
 अत्रोपपत्तिः---यतो भानां ध्रुवाः कृतदृक्कर्मकाः शराश्च स्फुटाः । अतो भग्रहयुतिसाधनाय ग्रह अायनदृक्कर्म स्फुटं च सायकं कृत्वा युतिसाधनं कर्तुं युज्यते ॥ ९ ॥
    अथ युतिकालज्ञानार्थमाह--

ग्रहधुवान्तरे कला नभोगभुक्तिभाजिताः ।
गतागताप्तवासरैर्युतिग्रहेऽधिकोनके ।। १० ।।
विलोमगे नभश्वरे गतैष्यताविपर्ययः ।
ग्रहर्क्षदक्षिणोत्तरान्तरं नभोगयोगवत् ।। ११ ।।

 वा० भा०- येन नक्षत्रण सह ग्रहस्य युतिरन्विष्यते तस्य ध्रुवस्य ग्रहस्य चान्तरकला ग्रहभुक्त्या विभज्य लब्धदिनैर्युतिर्गता ज्ञेया । यदि ध्रुवाद्ग्रहोऽधिकः। अथ यद्युनस्तदैष्या। यदि वक्रो ग्रहस्तदा गतैष्यताविपर्ययः । अथ ग्रहक्षयोर्दक्षिणोत्तरमन्तरं तद्ग्रहयुतिवत् ।
 अत्रोपपत्तिग्रीहयुतिवदेव । भधुवस्य गर्ति शून्यं प्रकल्प्य दिर्वोकसोरन्तरलिसिकौघाद्गत्योवियोगेनेत्यादिना यथा कालः साधितस्तथात्रापि । अतः सर्वा ग्रहयुतिवद्वासना ।। १०-११ ।।

अथ युतिप्रसङ्गोन भानामुदयास्तकालमाह -
दृकर्मणा पलभवेन तु केवलेन भाना मुनेर्मुगरिपोरुदयास्तलग्ने ।
कृत्वा तयोरुदयलग्नमिनं प्रकल्प्य लग्नं ततो निजनिजे पठितेष्टकाले ॥१२॥
यत् स्यादसावुदयभानुरथास्तलग्नाद्व्यस्तं विभार्धमपि लग्नकमस्तसूर्यः ।
इष्टोनषष्टि६०घटिकास्वथ वास्तलग्नाल्लग्नं क्रमेण भदलोनितमस्तसूर्यः ॥१३॥
स्यादुद्गमो निजनिजोदयभानुतुल्ये सूर्येऽस्तभास्करसमेऽस्तमयश्च भानाम् ।
अत्राधिकोनकलिका रविभुक्तिभक्ता यातेंष्यवासरमितिश्व तदन्तरे स्यातू॥१४॥

 वा० भा०-भानामगस्त्यस्य लुब्धकस्य च पूर्ववदुदयास्तलग्ने साध्ये । परन्तु केवलेन पलभवेन · दृक्कर्मणा । ध्रुवस्य कृतायनदृक्कर्मकत्वात् पुनरायनं दृक्कर्म न कर्तव्यमित्यर्थः ॥ तत्रोदयलग्नमर्क प्रकल्प्य लग्न साध्यम्। तच्च स्वकीये पठितेटकाले । एवं यल्लग्न सिध्यति स उदयाकों ज्ञातव्यः। अथ यदस्तलग्नमानीतं तच्चार्क प्रकल्प्य निजनिजेटकाले विलोम लग्न साध्यम् ॥ तद्राशिषट्कोनमस्तसूर्यसंज्ञं भवति । अथवेष्टघटिकोनाभिः षष्टिघटिकाभिरस्तलग्नात् क्रमेण लग्न साधितं तद्धदलोनितमस्तसूर्यो भवति। यदोदयभानुसमी भानुर्भवति तदा तस्य नक्षत्रस्योदयो भवति ॥ यदास्तसूर्यसमस्तदास्तमयः । यदागस्त्योदयः किलाभीष्टदिनात् कियद्भिर्दिनेरिति विज्ञातुमिष्यते तदेष्टदिनार्कस्यागस्त्योदयार्कस्य चान्तरकला रविभुक्त्या भाज्याः । लब्धदिनैरगस्त्यस्योदय एष्यः । यद्युदयार्को महान् । यद्यूनस्तदा गतः । एवमस्तसूर्यादस्तमयोऽपि ॥

एवं भानामपि ।

सि०-३९