अथ देशान्तरवशेन विशेषमभिधायेदानीं कालान्तरवशेन विशेषमाह-- |
वा० भा०--ये भधुवकास्ते स्थिरत्वात् पूर्वाचार्य: कृतदृक्कर्मका एव सुखार्थ पठिताः ।
परमेतेऽयनांशाभाव एव भवन्ति । यदा तैः पठितास्तदा प्रायस्तेषामयनांशानामभावः संभाव्यते । अन्यदा त्वयनांशवशादेषां किचिदन्यादृक्त्वं च भवति। अतस्तेषां सम्यक स्फुटीकरणायाह।
शरज्या अस्फुटा इत्यादि । ये स्फुटाः शरांशाः पठितास्तेऽस्फुटास्तावत् कार्यास्ते च धनूरूपाः सन्त्यतो ज्यास्तेषां कृत्वा षष्टया द्युचरविशिखस्ताडित इत्यादिना व्यस्तेन कर्मणाऽस्फुटाः कार्याः ।
एतदुत्त' भवति । भर्ध्नुवं ग्रहं प्रकल्प्यायनांशाभव अायनं वलनं यष्टि चानीय पठितशरस्य ज्यात्रिज्यया गुण्या षष्टया भाज्या । फलमस्फुटशरस्य ज्या भवति । ताभिरायनदृक्कर्म कार्य व्यस्तमसकृत् । ( तच्च यथा गोले सम्यगायनं वलनमुक्तं' तत्र व्यस्तं कार्यम् । शरस्य महत्त्वात्' ॥ ) तद्यथा । साऽस्फुटशरज्यायनवलनेन गुण्या द्युज्यया भाज्या । फलचापासुभिः शरवलनयोरेकदिशोर्भभ्रुवकसकं प्रकल्प्य निरक्षोदयैः क्रमलग्नं कार्यम् ॥ भिन्नदिशोरुत्क्रमलग्नम् । एवमसकृदकृतायनदृक्कर्मको ध्रुवो भवति । ततस्तस्य ध्रुवस्यायनांशवशादनुलोममायनं दृक्कर्म कार्यम् ॥ तद्यथा अकृतदृक्कर्मकस्य ध्रुवस्यायनांशान् दत्वा वलनं यष्टिश्च साध्या । तद्वलनमस्फुटशारज्यया गुण्यं ध्रुवस्य द्युज्यया भाज्यं फलचापासुभिरकृतदृक्कर्मकं भक्षुवं रवि प्रकल्प्य शरवलनयोरेकदिशोरुत्क्रमलग्नं भिन्नदिशोः क्रमलग्नं यद्भवति स स्फुटो भर्ध्नुवः । यः पाठपठितोऽसावयनांशाभाव एव । तथा याऽस्फुटा शरज्या सा यष्टया गुण्या त्रिज्यया भाज्या । फलरय चापांशास्ते स्फुटाः
शरांशाः । ये पाठपठितास्ते स्थूलाः । एवं स्फुटेन भुवेण स्फुटशरेण च भग्रहयोगादिक साध्यं विजानता गणकेन । अत्रायनांशानामल्पत्वेऽल्पमन्तरं कृतेऽपि तस्मिन् कर्मणि भवति । बहुत्वे तु
बहु ॥ अतो यदा बहवोऽयनांशास्तदेदं कर्मावश्यं कर्तव्यमित्यर्थः ।। १७-२१ ।।
इति श्रीभास्कराचार्यविरचिते सिद्धान्तशिरोमणिवासनाभाष्ये मित्ताक्षरे
भग्रहयुत्यधिकारः । ग्रन्थसंख्या १३० ॥
१. अत्र बापूदेवः -
तच्चेतिप्रभृति महत्वादित्यन्तं केनाचित् प्रक्षिसमिति प्रतिभाति ।