पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/356

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३११
पाताधिकार:


   खाशवा बाणर्तवोऽङ्गाक्षास्त्र्यब्धयो भानि खेचराः ॥ इति ।
   ७० ॥ ६५ ॥ ५६ ॥ ४३ ॥ २७ ॥ ९ ॥
 अत्र प्रदेशे क्रान्तेः प्रथमखण्डेनैवोपचयो गोलसन्धित्वात् । ततस्तस्मिन्नेव प्रदेशे यच्छरखण्डको तेनाधिकेन क्रान्तिखण्डेन स्फुटक्रान्तेरुपचयः । यदि परमा क्रान्तिश्चतुविशतिभागाधिका । यद्यूना तदा शरखण्डकोनेन क्रान्तिखण्डेनोपचयः ॥ अतस्ते द्विरसगुणाः ३६२ तत्स्थानीयशरखण्डकेन संस्कृता यावन्तो भवन्ति तत्प्रमाणं स्फुटक्रान्तेः खण्डं भवितुमर्हतीत्यर्थः । तत्स्थानीयशरखण्डक कर्थ ज्ञायते तदर्थमुपाय: । सर्वत्र भुजज्याकरणे स्फुट भोग्यखण्डक कोटिज्यया त्रैराशिकेन ज्ञायते । तद्यथा ॥ यदि त्रिज्यातुल्यया १२० कोटिज्या प्रथमं शरखण्डं ससतितुल्यं लभ्यते तदायनांशोनितपातस्य कोटिज्यया किमिति । अत्र गुणक भाजकी दशभिरपवर्तितौ । एवं कृते कोटिज्यायाः सस गुणो द्वादश भागहारः । फल तत्स्थाने शरखण्ड भवति । तेन खण्डकेन द्विरसगुणा ३६२ युक्ताः कार्याः । यद्ययनांशोनितपातो मकरादिषट्के वर्तते । यतस्तत्र वर्तमाने सति राशित्रयाधिकस्य चन्द्रस्य स्फुटा परमा क्रान्तिश्चतुविशतिभागाधिकैव भवति । कक्र्यादिषट्कस्थित ऊर्नव । तदेवं स्फुटखण्डं जातम् ॥ तेनानुपातः । यद्येतावता खण्डेन पञ्चदश १५ धनुर्भागा विमण्डलगताः क्रान्तिमण्डलगता वा लभ्यन्ते तदा प्रागानीतशरतुल्येन किमिति । पूर्व शरसाधने दोज्यया नव & गुणश्चत्वारो भागहार इति स्थितम् । इदानीं पञ्चदश गुणकारः । कोटिफलोनयुता द्विषड्रामा हरः । एवं च गुणयोर्घाते कृते पञ्चत्रिशदधिकं शतं १३५ गुणः । अथ च शरः स्फुटः कर्तव्यः ॥ तत्र सत्रिराशिग्रहद्युज्यानिध्नस्त्रिज्योद्धृतः शर: स्फुटो भवतीति ॥ तत्रस्थश्चन्द्रः सायनांशः पूर्णं भवति । तस्य राशित्रययुतस्य द्युज्या परमद्युज्या । अतः पञ्चत्रिशदधिकं शतं यावत् परमद्युज्यया गुण्यते त्रिज्यया ह्रियते तावदुत्पन्ना गुणसूर्याः १२३ ।॥ एवम्यनांशोनितपाताहोज्य गुणसूर्यगुणिता कृतैर्भता । तद्भुजफल कोटिफलोनयुतद्विरसगुर्ण: ३६२ भक्तम् । लब्धैरंशैरकगोलसन्धिरयनांशोनितपाते मेषादिस्थेऽत ऊनीक्रियते यतः पातो विलोमगस्तत्स्थानं विषुवन्मण्डलाद्दक्षिणतः क्रान्तिवृत्ते भवति । तत्र विन्यस्तस्य विमण्डलस्य पूर्वाधं यावदुत्तरतः परमविक्षेपांशेनींयते तावद्धिरंशै रविगोलसन्धेः पश्चिमत एव तस्य विषुवन्मण्डलेन सह संपातो भवति । अतस्तुलादिस्थे तु विपरीतमिति । एतद्यथास्थिते गोले यथोक्तं विषुवन्मण्डलं विन्यस्य दर्शयेत् ॥ इति सर्व निरवद्यम् ॥३-६॥

अथ साधारण्येन क्रान्तिसाम्यसंभवज्ञानमाह--
स्वायनसन्धाविन्दोः क्रान्तिस्तत्कालभास्करक्रान्तेः ।
ऊना यावत् तावत् क्रान्त्योः साम्यं तयोर्नास्ति ॥७॥

 वा० भा० - यत्र कुत्रचिहिने यावतीषु घटिकासु स्वायनसन्धितुल्य: स्फुटश्वन्द्रो भवति तस्य स्फुटा क्रान्तिः साध्यते । तत्र काले यावान् रविस्तस्य क्रान्तिः साध्यते । तस्या रविक्रान्तेः सकाशाद्यद्यूना स्फुटा शशिक्रान्तिस्तदा क्रान्त्योः साम्यं नास्तीत्यवगन्तव्यम् ।
 अत्रेयं प्रकटैव वासना । स्वायनसन्धिस्थविधोर्या क्रान्तिः सा तस्य स्फुटा परमा । तस्मात् स्थानादग्रतः पृष्ठतो वा यावच्छशी चाल्यते तावत् तस्य क्रान्तिन्यूनैव भवति । अतोऽधिकया रविक्रान्त्या सह साम्यं नास्ति ॥ अतोऽन्यथास्तीत्युपपन्नम् ॥