पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/357

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सिद्धान्तशिरोमणौ ग्रहगणिते
सिद्धान्तशिरोमणौ ग्रहगणिते

३१२  सिद्धान्तशिरोमणी ग्रहगणिते अत्र यावदूना तावत् क्रान्त्योः साम्यं नास्तीत्यस्याभिप्रायो व्याख्यायते । यदा किल व्ययनांशो राशिषट्कं पातः । रवेरयनसन्धितुल्यः शशी २।१९ रविश्च तावान् २॥१९ तदाकचन्द्रयोरयनसन्धिस्तुल्य एव भवति २॥१९ तत्र स्वायनसन्धाविन्दोः क्रान्तिः ११७० । तत्र रवेश्र्च क्रान्तिः १४४० ॥ अत्र विधोः क्रान्तेरूनत्वात्क्रान्तिसाम्याभावः । तस्मात् कालादग्रतो वित्र्यंशैश्चतुर्दशभिर्दिनैः १३॥४०॥ रविचन्द्रपाता मध्यगत्यैव किल चालिता एतावन्तो भवन्ति ॥

र. चं. पा. अत्र विधोरयनसन्धिद्वितीयः ८ ॥ १९ || ९ || ३५ ॥ अत्र स्वायन३ ८ ६ सन्धाविन्दोः क्रान्तिः १ १६९ । तत्र तत्कालभास्करक्रान्ति: १३ · ८ ॥ २ १& ११ अत्रापि विधुक्रान्तेरूनत्वात् क्रान्तिसाम्याभावः । एवमस्मादपि २८ ४ ४३ कालादग्रतस्तावत्येव दिनान्तरे क्रान्तिसाम्याभाव एव भविष्यतीति । १२ २६ २८ एवं प्रथमकालात् पृष्ठतश्चालनद्वये कृतेऽपि क्रान्तिसाम्याभाव एव । एवं मासद्धये क्रान्तिसाम्याभाव एव संभूतः । यदा 'गोलसन्धिसमीपस्थः पातो भवति तदा रवेर्दक्षिणायनादुत्तरायणाच्चोभयतः कियन्ति च दिनानि क्रान्तिसाम्याभाव एवेत्यर्थः ॥७॥

अथ व्यतिपातवैधृतयोर्लक्षणमाह

व्यतिपातोऽयनभेदे गोलैकत्वेऽर्कचन्द्रयोः क्रान्त्योः ।
 साम्ये वैधृत एकायनेऽन्यदिगपक्रमसमत्वे ॥८॥

वा० भा०-पूर्व किल साधारण्येन क्रान्तिसाम्यस्य भावाभावलक्षणमुक्तम् । तच्च क्रान्तिसाम्यस्य लक्षणविशेषेण व्यतिपातवैधूतनामयोगौ भवत । इदं हि किल लक्षणम् । यदार्कचन्द्रौ भिन्नयनसंस्थावेकगोलौ च भवतस्तदा यदि तयोः क्रान्तिसाम्यं भवति तदा व्यतिपातनामा योग उच्यते। यदैकायनस्थयोभिन्नगोलस्थयोश्च क्रान्तिसाम्यं भवति तदा वैधृतनामा योग उच्यते । तत् तादृशं लक्षणं कदा चेति न ज्ञायते ॥८॥

अतस्तज्ज्ञानार्थं संभवमाह -

Na. Na, Q सायनरविशशियोगो भाध ६ चक्रतं १२ यदा तदासन्नः । तत्संभवस्तदूनाधिकलिप्ता भुक्तियोगहृताः ॥९॥Vr Fa ܬܐ ܓ लब्धदिनैरेष्यगर्तेस्तात्कालिकयोरपक्रमी साध्यौ ।

वा० भा०-कस्मिश्चिहिने स्फुटौ रविचन्द्रौ पातश्च कार्यः । तयो रविचन्द्रयोः पृथक् पृथक् सायनांशयोर्योगो यदा भार्धं भवति तदा तस्य कालस्यासन्नोऽग्रतः पृष्ठतो वा व्यतिपातस्य संभवोऽस्तीति ज्ञेयम् । यदा तु तयोर्योगश्चक्रं १२ भवति तदासन्नो र्वधृतस्य संभवो ज्ञेयः । यदा योगो भार्ध चक्रतं वा न पूर्यते तदा यावतीभिः कलाभिः पूर्यते ताँ ऊनाः कलाः । यदा तु भार्धा दधिको योगस्तदा योगाद्धाधे शोधिते या: शेषस्य कलास्ता अधिककला उच्यन्ते । एवं चक्रादप्यूनाधिकलिसाः । ताः कल1श्चन्द्राकयोः स्फुटगतियोगेन भाज्याः । फलं दिनादिकं ग्राह्यम् ।


१. अत्र बापूदेवः - गोलसन्धिस्तुलादिज्ञेयः ।