अथ तस्मात् क्रालाद्गतगम्यस्य क्रान्तिसाम्यकालस्य परिज्ञानमायोत्तरार्धादारभ्य
साधेनार्यात्रयेणाह--
तत्क्रान्त्योरेकदिशोरन्तरमैक्यं विभिन्नदिशोः ।।११।। |
वा० भा०-इदं पूर्वोदाहरणस्योपरि प्रदश्यते । तच्चोदाहरण युक्तायनांशोंऽशशतं शशी चेदित्यादि । तत्र नवभागाधिकं राशिद्वयं रविः २॥९। भागेनोनं त्रिभं शशी २॥२&। एकविश
तिभागाधिकं त्रिभं पातः ३॥२१। एते तात्कालिका एव कल्पिताः । यतोऽनयो रविचन्द्रयोः
सायनांशयोर्योगे भार्धं भवति । रविः २॥२०॥ चं ३।१० । अत एव व्यतिपप्तेनात्र भवितव्यम् ।
अत्र रवेस्तावद्गोलयनसन्धी ३६।२ ३ तथा चन्द्रस्य साधितौ ३९६६ अत्रीदाहरणे चन्द्रः २ ।।
3 R 3 R
२९ । अस्यासन्नो योऽयनसन्धिः स गृह्यते । स्वायनसन्धाविन्दोः क्रान्तिरिति सन्धितुल्यं विधुं प्रकल्प्य साधिता स्फुटा क्रान्तिः ससदशाधिकानि चतुर्दशशतानि १४१७ ॥
अथ तत्कालभास्करक्रान्तिरिति । यस्मिन् काले शशी स्वायनसन्धितुल्यो जातो भविष्यति तत्र काले यावान् रविः स तत्कालभास्करः । अत्रायनसन्धिश्चन्द्रादूनोऽतः प्रागेवायनसन्विस्थो जातः । स च कियता कालेनेति ॥ अत्र विधोः स्वायनसन्धेश्चान्तरकलाश्चन्द्रभुनिया भाज्याः । लब्धदिनैः स्वसन्धिस्थो जातो भविष्यति वेति वेदितव्यम् ॥ अत्रोदाहरणे विधोः स्वसन्धेश्चान्तरे भागाः २०॥२३। एषां कलाश्चन्द्रभुक्तया भाज्याः । अत्र चन्द्रभुक्तिः सुखार्थं खवसुमुनिमिताः कलाः ७८० कल्पिताः । रवेश्र्च भुक्तिः षष्टिः ६० । अत्र चन्द्रभुक्तया ताः कला भक्ता लब्धमेकं दिनं घटिकाश्चतुस्त्रिशत् १॥३४॥ एतावता कालेन विधुः स्वायनसन्धिस्थः पूर्वमेव जातः । अतोऽनेन
१. अत्र लल्ल:- क्रान्त्योर्युतिरेकदिक्कयोविवरं भिन्नदिशोस्तु वैधृते । विवरं समदिक्कयोस्तयोव्यतिपातेऽन्यदिशोः समागमः । प्रथमः स तथा परो युते रहितैरिष्टघटीफलेन तैः । गतयोरथवापि गम्ययोविवरं संयुतिरन्यथा तयोः ॥ प्रथमेष्टघटीवघेऽमुना विहृते लब्धघटीमितेऽन्तरे । पात: प्रथमे गातागते गीतगम्य: प्रथमाख्यकालतः ।
व्व्शि० धी० ग्र० ग० महा० ६-९ श्लो० ।